SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir BASE*** तच्च सर्वसावधविरतिरूपं चारित्रम् । यद्यपि च सर्वमपि चारित्रमविशेषतः सामायिक तथाऽपि च्छेदादिक्शेिवैर्विशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते । प्रथम पुनरविशेषणात्सामान्यशब्द एवावतिष्ठते । तच्च द्विधा-इत्वरं यावत्कथिक च। तत्रेत्वरं भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपितव्रतस्य शैक्षकस्य विज्ञेयम् । यावत्कथिकमाभववर्ति। तच्च भरतैरावतभाविमध्यमद्वाविंशतितीर्थकरविदेहतीर्थकरतीर्थान्तर्गतसाधूनामयसेयम्, तेपामुत्थापनाया अभावात् । 'छेद'। इति च्छेदोपस्थापनम् । तत्र च्छेदः पूर्वपर्यायस, उपस्थापना च महाव्रतेषु यस्मिन् चारित्रे तच्छेदोपस्थापनम् । तच द्विधा-सातिचार निरतिचार च । तत्र निरविचारं यदित्वरसामायिकवतः शैक्षकस्यारोप्यते तीर्थान्तरसंक्रान्तौ वा, यथा पार्श्वनाथतीर्थाद्वर्धमानस्वामितीर्थ संक्रामतः पञ्चयामधर्मप्रतिपत्तौ । सातिचारं यन्मूलगुणघातिनः पुनर्वतोच्चारणम् । 'परिहार' इति परिहारविशुद्धिकम् । परिहरणं परिहारस्तपोविशेषः तेन विशुद्धिर्यस्मिन् चारित्रे तत्परिहारविशुद्धिकम् । तच्च द्विधा-निर्विशमानक निर्विष्टकायिकं च । तत्र निर्विशमानका विवक्षितचारित्रसेवकाः । निर्विष्टका-18 यिका आसेवितविवक्षितचारित्रकाः। तदक्वतिरेकाच्चारित्रमप्येवमुच्यते । इह नवको गणः, तत्रैको वाचनाचार्यः, चत्वारो निर्विशमानकाः, चत्वारश्चानुचारिणः । निर्विशमानकानां चायं परिहारः-“परिहारियाण उ तवी, जहन्न मझो तहेव उकोसो । सीउण्हवासकाले, भणिओ धीरेहि पत्तेयं ॥ १॥ तत्थ जहन्नो गिम्हे, चत्य १ हो २ उ होइ मज्झिमओ। अहम ३ मिह उक्कोसो, एत्तो सिसिरे पवक्खामि ॥२॥सिसिरे उ जहन्नाई, छहाई दसम ४ चरिमगो होइ । कासासु दि अट्ठमाई, बारस ५ पजतम्मे नेमो ॥३॥पारणगे आयाम, पंचसु गहो दोसु (स) भिम्गहो भिक्खे । कल्पद्विवा वि पइदिण, ** YEAR SREGNO ******* For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy