________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(हारि०) व्याख्या-मनोवाकाययोगात्रयः। स्त्री पुरुषो नपुंसकृमिति वेदास्त्रयः। क्रोधो मानो माया लोभ इति चत्वारः कषायाः। इतिशब्दो वाक्यसमाप्तौ । इति गाथाथैः॥१४॥ (मल०) 'सुरगाहा' 'मणगाहा' एते निगदसिद्धे ॥ १३ ॥१४॥
मइसुयओहीमणके-वलाणि मइसुयअनाणविब्भंगा ।
सामइयछेयपरिहा-रसुहुमअहखायदेसजयअजया ॥१५॥ (हारि०) व्याख्या-मतिश्रुतावधिमनापर्यायकेवलानीति पञ्च ज्ञानानि । मतिश्रुताज्ञान विभङ्गनामानि त्रीण्यज्ञानान्युपलक्षणत्वावृधन्ते । एवमन्यत्रापि यत्र विपक्षभूतं पदं दृश्यते तत्रायमेव हेतुर्वक्तव्य इति।। अत एवोत्तरभेदापेक्षया द्विषष्टिरित्युक्तं प्रांगिति । सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसंप. राययथाख्यातदेशसंयतासंयताख्यानि सस पदानि । इति गाथा: ॥१५॥
(माल०) मतिश्रुतावधिमनःपर्यवकेवललक्षणानि पञ्च ज्ञानानि । मतिश्रुताज्ञानविभङ्गलक्षणानि च त्रीणि अज्ञा-| नानि । तत्र "मनज्ञाने" मननं मतिः। यद्वा मन्यते इन्द्रियमनोद्वारेण नियतं वस्तु परिच्छिद्यतेऽनयेति मतिः, योग्यदेशावस्थितवस्तुविषय इन्द्रियमनोनिमित्तकोऽवगमविशेषः । तथा श्रवणं श्रुतम्, अमिलापप्लावितार्थग्रहणप्रत्यय उपलब्धिविशेषः । एवमाकारं वस्तु जलधारणाद्यर्थक्रियासमर्थ घटशब्दाभिलाष्यम्, इत्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपयोलोचनानुसारी' इन्द्रियमनोनिमित्तो ज्ञानविशेष इति यावत् । तदुक्तम्-"जं पुण तिकाल
रणाद्यर्थक्रियासमवशेषः । तथा श्रवण नियतं वस्तु परिलक्षणानि च त्रीणि,
For Private And Personal Use Only