________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडशीतिप्रकरणम्
OGRLICA
टीकाद्वयो पेतम् ॥
॥१३८॥
SUXHUARACHAR
कायेष्वेतानि चिन्तयन्नाह थावर' इत्यादि । 'स्थावरपञ्चके' पृथिव्यतेजोवायुवनस्पतिलक्षणे प्रत्येक 'प्रथमानि' पर्याप्ता- पर्याप्तसूक्ष्मबादरैकेन्द्रियलक्षणानि चत्वारि जीवस्थानानि भवन्ति, स्थावरपञ्चकस्यैकेन्द्रियत्वेन तत्संबन्धिनामेव जीव- स्थानानां तत्र संभवात् । तथा 'चरमाणि' एकेन्द्रियसंबन्धीनि चत्वारि जीवस्थानानि वर्जयित्वा शेषाणि द्वीन्द्रियादि-| संबन्धीनि दश जीवस्थानानि सेषु लभ्यन्ते, द्वीन्द्रियादीनामेव त्रसत्वात् ॥ १९॥
इदानीं योगादिश्वेतानि जीवस्थानानि यथालाघवमुपदिदर्शयिपुराहविगलतिअसन्निसन्नी, पज्जत्तापंच होति वइजोगे। मणजोगे सन्निको, पुमिथिए चरम चउरो ॥२०॥
(हारि०) व्याख्या-इह प्राकृतशैलीवशात्पुंल्लिङ्गनिर्देशः । ततश्च विकलत्रिकासंज्ञिसंज्ञिलक्षणानि पर्याप्तकजीवस्थानानि पश्च भवन्ति, क ? इत्याह-वाग्योगे । तथा मनोयोगे पर्याप्तसंश्येक जीवस्थानकम् । काययोगे पुनरग्रे वक्ष्यतीति । साम्प्रतं वेदेषु तान्याह-वेदशब्दस्य प्रत्येकमभिसंबन्धात् पुरुषवेदस्त्रीवेदयोः 'चरमाणि' पर्यन्तवर्तीनि जीवस्थानानि पञ्चेन्द्रियसत्कानि चत्वारि भवन्तीति प्राक्तनेन योगः। इह अपर्याप्तश्च करणेन गृोते, न लब्ध्या, लब्ध्यपर्याप्तकस्य सर्वस्यैव नपुंसकत्वात् । अन्यच्च यत्रासंज्ञिनि स्त्रीपुसाभिधानं तत्कार्मग्रन्थिकमतेनैव द्रष्टव्यम् । सैद्धान्तिकानां त्वसंज्ञी पर्यासोऽपर्याप्तो वा नपुंसक एव । तथा च प्रज्ञप्तिः-"असन्निपुच्छा 'गोयमा! नपुंसगवेयगा” मनुष्यासंज्ञिनस्तु लब्ध्यपर्याप्सा एव भवन्तीत्यतस्ते निर्विवादं नपुंसका एव । इति गाथार्थः ॥ २०॥
SASSARIAS*********
॥२२॥
For Private And Personal Use Only