________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CARRORSCIE
है| कर्मचतुष्टयस्वेति । तथा मिथ्यादृष्टिगुणस्थानकात्प्रभृति. यावत्प्रमत्तसंयतगुणस्थानकं तावद्यदि अनुभूयमानभवायुराव
लिकावशेष न भवति तदाऽष्टानामपि कर्मणामुदीरणा । यदा त्वनुभूयमानभवायुरावलिकावशेष भवति तदा तथास्वभावत्वेन तस्यानुदीर्यमाणत्वात्सप्तानामुदीरणा । सम्यग्मिथ्यादृष्टिगुणस्थानके तु सदैवाष्टानामेव कर्मणामुदीरणा, आयुष आवलिकावशेषे सम्यग्मियादृष्टिगुणस्थानकस्यैवाभावात् । तथाऽप्रमत्तगुणस्थानकारप्रभृति यावत्सूक्ष्मसंपरायगुणस्थानकस्यावलिकावशेषो न भवति तावद्वेदनीयायुर्वर्जानां षण्णां कर्मणामुर्दारणा, तदानीमतिविशुद्धत्वेन वेदनीयायुरुदीरणायोग्याध्यवसायाभावात् । आवलिकावशेषे तु मोहनीयस्याप्यावलिकाप्रविष्टत्वेनोदीरणाया असंभवाग्ज्ञान १ दर्शनावरण२ नाम ३ गोत्रा ४ऽन्तराया ५ णामेवोदीरणा । एतेषामेव चोपशान्तमोहगुणस्थानकेऽपि उदीरणा । क्षीणमोहगुणस्थानकेऽप्येतेषामेव यावदावलिकामात्रावशेषो न भवति । आवलिकावशेषे तु ज्ञानावरणदर्शनावरणान्तरायाणामयावलिकाप्रविष्टत्वान्नोदीरणेति द्वयोरेव नामगोत्रयोरुदीरणा । एवं सयोगिकेवलिगुणस्थानकेऽपि । अयोगिकेवलिगुणस्थानके तु वर्तमानो जीवः सर्वथाऽनुदीरक एव । ननु तदानीमप्येष सयोगिकेवलिगुणस्थानक इव भवोपमाहिकर्मचतुष्टयोदये वर्तते ततः कथं तदाऽपि तयोर्नामगोत्रयोरुदीरको न भवति? इति, नैष दोषः, उदये सत्यपि योगसव्यपेक्षत्वादुदीरणायास्तदानी च तस्य योगासंभवादिति । तथा उपशान्तमोहगुणस्थानकं यावदष्टानामपि कर्मणां सत्ता । क्षीणमोहावस्थायां तु मोहरहितानां सप्तानां कर्मणाम् । सयोगिकेवल्याद्यवस्थायां चाघातिकर्मणां चतुर्णाम् । इति ॥ ११॥ .
१ एवमिति कोऽर्थः ! सयोगिकेवलिगुणस्थानकेऽपि द्वयोरेव नामगोत्रयोरुदीरणा ॥
क० २३
For Private And Personal Use Only