________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संख्या गाथाबयेनोच्यते--"बन्धेष्ट सत्त जाउग ७ छविहममोहाउ ६ इगविहं सायं १ । संतोदयेसु अट्ठ उ८, सत्त अमोहा ७ चउ अघाई ॥१॥ अह उदीरइ ८ सत्त उ, अणाउ ७ छविहमवेयणियआऊ ६ । पण अवियणमोहाउग ५ अकसाई नामगोत्तदुगं २ ॥२॥" अयमर्थ:-अष्टौ सर्वा अपि मूलप्रकृतयः ८, आयुर्वर्जाः सप्त ७, मोहायुर्वर्जाः षट् ६, एकमेव वेदनीयम्, इत्येवं चतुर्धा बन्धः । तथाऽष्टौ तथैव ८, मोहवर्जाः सप्त ७, घातिकर्मवर्जाश्वतमः ४, इत्युदयस्त्रिधा । तथाऽष्टौ पूर्ववत् ८, आयुर्वर्जाः सप्त ७, आयुर्वेद-15 नीयवर्जाः षटू ६, वेदनीयायुमोहवर्जाः पञ्च ५, नामगोत्रे एव २२, इति पञ्चप्रकारोदीरणा ५। सत्ता पुनमदयवत् । इति गाथार्थः ॥११॥
इत्युक्तानि जीवस्थानेषु गुणस्थानकादीन्यष्टौ पदानि, सांप्रतं मार्गणास्थानानि प्ररूपयन्नाह
(मल०) सप्त वाऽष्टौ वा सप्ताष्टाः, सप्ताष्टाश्चाष्टौ चेत्यादिद्वन्द्वः । बन्धोदयादिपदानामपि द्वन्दः । ततः षष्ठीतत्पुरुषसमासः। समाननिर्देशत्वाच्चात्र यथासंख्यम् , एतदुक्तं भवति-संज्ञिपर्याप्तवर्जितेषु शेषेषु त्रयोदशसु जीवस्थानकेषु बन्धः सप्तानामष्टानां वा कमेणां ज्ञातव्यः । तथाहि-यदाऽनुभूयमानभवायुपखिभागनवभागादिरूपे शेषे सति परभ-1 वायुर्वध्यते, तदाऽष्टानामपि कर्मणां बन्धः। शेषकालं त्वायुषो बन्धाभावात्सप्तानामेव । उदयः पुनरेतेषु त्रयोदशसु जीवस्थानकेषु सर्वकालमष्टानामेव कर्मणाम् । यतः सूक्ष्मसंपरायगुणस्थानक यावदष्टानामपि कर्मणामुदयोऽवाप्यते, एतेषु च
१ "पूर्ववत्" इत्यपि पाठः॥
SAGARMACAR क
ल
For Private And Personal Use Only