SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra षडशीतिप्रकरणम् ॥१३१॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्तायाम् । इति यथासंख्येन योजना कार्या । बन्धादीनां स्वरूपं त्विदम् – मिथ्यात्वादिभिर्बन्धहेतुभिरञ्जनचूर्णपूर्ण समुद्गकवन्निरन्तरं पुद्गलनिचिते लोके कर्मयोग्यवर्गणापुङ्गलैरात्मनो बह्ययः पिण्डवदन्योऽन्यानुगमाभेदात्मकः संबन्धो बन्धः । तेषां च यथावस्थितिबद्धानां कर्मपुद्गलानां करणविशेषकृते स्वाभाविके वा स्थित्यपचये सत्युदयसमयप्राप्तानां विपाकवेदनमुदयः । करणानि पुनरिमान्युक्तानि । तथाहि"बंधण १ संकमणु २ व्वहणा ३ य ओवट्टणा ४ उईरणया ५ । उवसामणा ६ निहत्ती, ७ निकायणा ८ चप्ति करणाई ॥ १ ॥" अस्याः सुखार्थ लेशतो व्याख्यानमिदम्- बन्धनं प्रकृतिस्थित्यनुभागप्रदेशरूपम् १ संक्रमणं प्रकृतेः प्रकृत्यन्तरनयनम् २ । उद्वर्तनं स्थितिरसवृद्ध्यापादनम् ३ । अपवर्तनं स्थितिरसहापनम् ४ । उदीरणाऽप्राप्तकालस्य कर्मदलिकस्योदये प्रवेशनम् ५ । उपशमना सर्वकरणायोग्यत्वसंपादनं, दर्शनत्रिके तु संक्रमणमेकं प्रवर्तते ६ । निवत्तिरुदयोदीरणासंक्रमरूपैस्त्रिभिः करणैर्यदन्यथा कर्तुं न शक्यते ७ । निकाचना पुनः सर्वकरणायोग्यत्वमिति ८ । तथा कर्मपुद्गलानामेव करणविशेषजनिते स्थित्यपचये सत्युदयावलिकायां प्रवेशनमुदीरणा । बन्धसंक्रमाभ्यां लब्धात्मलाभानां कर्मणां निर्जरणसंक्रमकृतखरूपप्रच्यु त्यभावे सद्भावः सत्ता । 'सन्निपजत्तए ओघो' इति । अस्य पदस्यार्थ स्वयमेव ग्रन्थकारों गुणस्थानकेषु बन्धादिमार्गणायामग्रे वक्ष्यति । स्थानाऽशून्यार्थ सामान्यतो, न गुणस्थानकयोजनया बन्धादिस्थान"उपशामना" इत्यपि पाठः ॥ For Private And Personal Use Only टीकाद्वयोपेतम् ॥ ॥ १५ ॥
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy