SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लक्षणे पडपि कृष्णनीलकापोततेजःपद्मशुक्लरूपा लेश्या भवन्ति । 'चउरो पढमा बायर अपजत्ते' इति ! बादरैकेन्द्रियेऽपर्याप्तके प्रथमाश्चतस्रः कृष्णनीलकापोततेजोरूपा भवन्ति । तेजोलेश्या कथमवाप्यते, इति चेदुच्यते, यदा देवभवाच्युतः सन् कश्चनापि बादरैकेन्द्रियतया भूदकतरुषु मध्ये समुत्पद्यते तदा तस्य घण्टालालान्यायेन साऽवाप्यते इत्यदोषः। 'तिच्चि सेसेसु' इति । अत्र प्रथमा इत्यनुवर्तते । प्रथमास्तिस्रः कृष्णनीलकापोताख्याः शेषेषु प्राकनद्विविधसंश्यपर्याप्तबादरैकेन्द्रियवर्जितेष्वेकादशसु जीवस्थानकेषु लभ्यन्ते नान्याः, तेषां सदैवाशुभपरिणामभावात् । शुभपरिणामरूपाश्च तेजोलेश्यादयः। इति ॥१०॥ तदेवं जीवस्थानकेषु लेश्या अभिधाय, साम्प्रतमेतेष्वेव बन्धोदयोदीरणासत्ताख्यस्थानचतुष्टयमभिधित्सुराहसत्तट्ट अट्ट र सत्तह३ अट्ट४ बंधु १दयुश्दीरणा संतो तेरससुजीवठाणेसु सन्निपजत्तए ओघो॥११॥ | (हारि०) व्याख्या सप्ताष्टौ चाष्टौ च सप्ताष्टौ चाष्टौ च सप्ताष्टाष्टसप्ताष्टाष्टौ । एतत्संख्यानि कानि भवन्ति ? इत्याह-बंधुदयुदीरणा संता" इति बन्धश्च उदयश्च उदीरंणा च सच बन्धोदयोदीरणासंति भवन्तीति | शेषः । कइल्याह-त्रयोदशसु जीवस्थानेषु' सूक्ष्मापर्याप्तादिषु । तथा 'सन्निपजत्तए ओघों' इति संज्ञिपर्याप्ते पर्यन्तवर्तिनि चतुर्दशजीवस्थानके ओघःसामान्यं भवति । इति गाथाऽक्षरघदना । भावना त्वेवम् सप्तायुवाः प्रकृतयोऽष्टौ तयुक्ता बन्धे । तथाऽष्टावुदये। तथा ससाष्टौ कथितस्वरूपा उदीरणायाम् । तथाऽष्टौ १-२-"सचा" इत्यपि पाठः । ३-४-"सत्ता" इत्यपि पाठः ॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy