________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडशीतिप्रकरणम्
॥१२९॥
तादेवै क्रियं प्रारभमाणस्य प्राप्यते । औदारिकमिश्रकार्मणकाययोगौ तु केवलिनः समुद्घातगतस्य । उक्तं च-13 टीकाद्वयो"औदारिकप्रयोक्ता, प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता, सप्तमषष्ठद्वितीयेषु ॥१॥ कार्मणशरीरयोगी, पेतम् ॥ चतुर्थके पञ्चमे तृतीये च ।" इति । तदेवं निरूपिता जीवस्थानकेषु योगाः, सांप्रतमुपयोगा निरूपणावसरप्राप्तास्ते च द्वादश । तद्यथा-मतिज्ञानादीनि पञ्च ज्ञानानि, मत्यज्ञानादीनि त्रीण्यज्ञानानि, चक्षुर्दर्शनादीनि च चत्वारि दर्शनानि । एतान् जीवस्थानकेषु चिन्तयनाह–'उवओगा' इत्यादि । 'दशसु' जीवस्थानकेषु पर्याप्ता १ऽपर्याप्त २ सूक्ष्म ३ बादर ४एकेन्द्रिय ५द्वीन्द्रिय ६ त्रीन्द्रिया ७ऽपर्याप्त८चतुरिन्द्रिया ९ऽसंज्ञिपश्चेन्द्रिय १० लक्षणेषु, त्रय उपयोगा भवन्ति । के ते ? इत्याह-अचक्षुर्दर्शनमज्ञानद्विकं च मत्यज्ञानश्रुताज्ञानलक्षणम् । ननु स्पर्शनेन्द्रियावरणक्षयोपशमसंभवाद्भवतु मतिरेकेन्द्रियाणां, यत्तु श्रुतं. तत्कथमुपपद्यते? भाषालब्धिश्रोत्रेन्द्रियलब्धिविकलत्वात् , भाषाश्रोत्रेन्द्रियलब्धिमतो हि तदुपपद्यते नान्यस्य । तदुक्तम्-"भावसुयं भासासोयलद्धिणो जुज्जए नं इयरस्स । भासाभिमुहस्स सुयं, सोऊण व जं हविजाहि ॥१॥" उच्यते, इह तावदेकेन्द्रियाणामाहारादिसंज्ञा विद्यते, तथा सूत्रेऽभिधानात् । संज्ञा चाभिलाष उच्यते । यदुक्तमावश्यकटीकायाम्-"आहारसंज्ञा आहाराभिलाषः क्षुद्वेदनीयप्रभवः खल्वात्मपरिणामविशेषः" इति । अभिलाषश्च ममैवरूपं वस्तु पुष्टिकारि तद्यदीदमवाप्यते ततः समीचीनं भवति इत्येवंशब्दार्थो|लेखानुविद्धः स्वपुष्टिनिमित्तभूतप्रतिनियतवस्तुप्रात्यध्यवसायरूपः, स च श्रुतमेव शब्दार्थालोचनानुसारित्वात् । श्रुतस्य
चैतल्लक्षणत्वात् , उक्तं च-"इंदियमणोनिमित्तं, जे विनाणं सुयाणुसारेण । निययत्थोत्तिसमत्थं, तं भावसुर्य मई
CAREOCCALCCAMACACACASS
For Private And Personal Use Only