SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 546SSAGES सेसं ॥१॥" इति । 'सुयाणुसारेणं' इति शब्दार्थालोचनानुसारेण केवलमेकेन्द्रियाणामव्यक्त एवं कश्चनापि अनिर्वचनीयः शब्दार्थोल्लेखो द्रष्टव्यः, अन्यथाऽऽहारादिसंज्ञानुपपत्तेः। यदप्युक्तं भाषालब्धिश्रोत्रेन्द्रियलब्धिविकलत्वादेकेन्द्रियाणां श्रुतमनुपपन्नमिति,तदप्यसमीक्षिताभिधानम्,तथाहि-बकुलादेःस्पर्शनेन्द्रियातिरिक्तद्रव्येन्द्रियविकलत्वेऽपि किमपि सूक्ष्म भावेन्द्रियपञ्चकविज्ञानमभ्युपगम्यते, “पंचेंदिउ व (ओ उ) बउलो" इत्यादिजिनवचनप्रामाण्यात् , तथा भाषाश्रोवेन्द्रियलब्धिविकलत्वेऽपि तेषां किमपि सूक्ष्म श्रुतमपि भविष्यति, अन्यथा आहारादिसंज्ञानुपपत्तेः, तदुक्तम्-“जह सुहुमं भाविंदियणाणं दबिंदियाण विरहे वि । दबसुयाभावंमि वि, भावसुर्य पत्थिवाईणं ॥१॥” इति कृतं प्रसंगेन गमनिकामात्रफलत्वात्प्रयासस्य ॥८॥ चक्खुजुया चउरिदियअसन्नि पज्जत्तएसु ते चउरो।मणनाणचक्खुकेवलदुगरहिया सन्नि अपजत्ते॥९॥ | (हारि०) व्याख्या-ते पूर्वगाथोक्तास्त्रय उपयोगा: 'चक्षुर्युताः' चक्षुरिन्द्रियोपयोगान्विताश्चत्वारो भवन्तीत्यर्थः । केषु ? 'चरिंदियअसन्नि' इति विभक्तिलोपाच्चतुरिन्द्रियासंज्ञिपश्चेन्द्रियेषु, कीदृशेषु ? पर्या-2 सकेषु । तथा मनःपर्यायज्ञानचक्षुर्दर्शनकेवलदिकरहिताः। केवलदिकं तु केवलज्ञानकेवलदर्शनरूपम् । शेषा अष्टावुपयोगाः संज्ञिन्यपर्यासके भवन्ति । इति गाथार्थः ॥९॥ . अथ किंचिदूनपादेनोपयोगान् समर्थयन् संवन्धपूर्वकं लेश्यास्तेष्वेव दर्शयन्नाह(मल) त एव पूर्वोत्तात्रय उपयोगाः 'चक्षुर्युताः' चक्षुर्दर्शनोपयोगसहिताः सन्तश्चत्वार उपयोगा भवन्ति, केषु ? PRAE%%AAAAAAAA For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy