SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनास्त्येवेति न तेषां वैक्रिययोगः प्रतिपादित इति । करणापर्याप्सानां त्वौदारिकयोगो वैक्रिययोगश्च न विवक्षितः, अन्यथाऽपर्याप्तानामौदारिकयोगवटैक्रिययोगोऽप्यभिहितः स्यादिति । लब्धिकरणापर्याप्तहै कपर्याप्तिमतां पुनरयं विशेषः लब्ध्यपर्याप्तास्त उच्यन्ते ये निजपर्याप्तीरसमाप्य म्रियन्ते, लब्धिपर्याप्ताद पुनः समाप्य म्रियन्त इति । करणापर्याप्सास्ते भण्यन्ते ये निजपर्याप्ती द्यापि पूरयन्ति परं पूरयिष्यन्ति । करणपर्याप्ताः पुनस्ते मण्यन्ते यैर्निजपर्याप्तयः पूरिता भवन्ति । अतो देवनारका असंख्यातवर्षायुषस्तियनरा जिनादयश्च, लन्धिपर्याप्ता एव भवन्ति न तु लब्ध्यपर्याप्ताः, तेषां निरुपक्रमायुष्कत्वेनापप्तिकावस्थायां मरणाभावात् । तथा चोक्तम्-"देवा नेरइया वा, असंखवासाउया य तिरिमणुया। उत्तमपुरिसा य तहा, चरमसरीरा य निरुवकमा ॥१॥” इति । करणत उभयथाऽपि भवन्ति । संख्यातवर्षायुषो नरतियश्चो लब्धितःकरणतश्चापर्याप्ताः पर्याप्तकाश्च भवन्ति । संख्यातवर्षायुषस्तिर्यङ्नरास्तु ते गीयन्ते येषां पूर्वकोव्यायुः, येषां पुनस्तदधिकं तेऽसंख्यातवर्षायुषोऽभिधीयन्ते आगमपरिभाषया । इत्युक्तं प्रासङ्गिक, साम्प्रतं प्रस्तुतमभिधीयत इति। 'बायरपज्जत्ते' इत्यादि बादरपर्यासे किम् ? इत्याह-औदारिक वैक्रियविकं च वैक्रियशरीरतन्मिश्रलक्षणमिति त्रयो भवन्तीति शेषः । वैक्रियदिकस्य हि बादरपर्यातकवायुकायिकेषु सद्भावात् । इति गाथार्थः ॥७॥ १"-स्ते मण्यन्ते” इत्यपि । २ "भण्यन्ते” इत्यपि ॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy