SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मोहणिज्जे, खीणकसाओ सजोगजोगि ति । होइ पडत्ताय तओ, अपउत्ता होइ हु अजोगी ॥ १० ॥” एतानि जीवस्था|नकेषूपदर्शयन्नाह - पढमेत्यादि । इह पदैकदेशेऽपि पदसमुदायोपचारात् 'गुणाः' इत्युक्ते गुणस्थानकग्रहणम् । प्राकृत| त्वाच्च द्वित्वेऽपि बहुवचनम् । यथा 'हत्था पाया' इत्यादौ । तत्र द्वे प्रथमगुणस्थानके मिथ्यादृष्टिसासादनलक्षणे भवत इति गम्यते । केषु ? इत्याह-- ' बादरद्वित्रिचतुरिन्द्रियाऽसंज्ञिनि अपर्याप्ते' बादरेत्यादिपदानां समाहारो द्वन्द्वः । प्राकृतत्वाच्च ततः परस्य सप्तम्येकवचनस्य लुक् अपर्याप्त इति च तस्य विशेषणम् । एवमन्यत्राध्यक्षरगमनिका कार्या । एतदुक्तं भवति - अपर्याप्तवादरैकेन्द्रिये पृथिव्याम्बुवनस्पतिलक्षणे न तेजोवायुरूपे, तन्मध्ये सम्यक्त्वलेशवतामप्युत्पादाभावात् । सम्यक्त्वं चासादयतां सासादनभावाभ्युपगमात् । तथा द्वीन्द्रियत्रीन्द्रियासंज्ञिपश्चेन्द्रियेषु चापर्याप्तकेषु प्रथमे मिथ्यादृष्टिसासादनलक्षणे गुणस्थानके भवतः । नन्वेकेन्द्रियाणामागमे सासादनभावो नेष्यते, यतस्तत्र नियमादेकेन्द्रिया अज्ञानिन एवोक्ताः । द्वीन्द्रियाश्च केचिदपर्याप्तावस्थायां सासादनभावोपगमाज्ज्ञानिनः, केचिच्च तदभावादज्ञानिनः । यदि पुनरेकेन्द्रियाणामपि सासादनभावः स्यात्तर्हि तेऽपि द्वीन्द्रियादिवदुभयथाऽप्युच्येरन्, न चोच्यन्ते, तथाहि — “एगिंदियाणं भंते ! किं णाणी अन्नाणी १, गोयमा ! नो नाणी नियमा अण्णाणी । तथा बेंदियाणं भंते ! किं नाणी अण्णाणी १, गोयमा ! नाणी वि अन्नाणी वि ॥" इत्यादि । तत्कथमिहापर्याप्तबादकेन्द्रियेषु पृथिव्य वनस्पतिलक्षणेषु सासादनगुणस्थानकभाव उक्तः १, सत्यमेतत्, किन्तु मा त्वरिष्ठाः स्वयमेतदाचार्य एवाग्रे प्रतिविधास्यतीति ॥ ४ ॥ संज्ञिनि अपर्याप्तके ' त्रीणि' गुणस्था १ तालपत्रपुस्तके तु “अन्यथा तेऽपि द्वीन्द्रियादिवदुभयथाऽप्युच्येरन्, न चोच्यन्ते" इत्येतावानेव पाठो दृश्यते ॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy