________________
Shri Mahavir Jain Aradhana Kendra
षडशीतिप्रकरणम्
॥१२२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
मूलाउ बेइ जों एवं । वट्टइ सो किण्हाए, नीलाऍ महलसाहाए ॥ ५ ॥ काऊ होइ पसाहा, तेऊ गुच्छा फला य पम्हाए । पडिय त्ति सुक्कलेसाए" इति ॥ आदिशब्दात्कर्मबन्धहेतुबन्धोदनोदीरणासत्ताल्पबहुत्वपरिग्रहः । तत्र क्रियते मिथ्यात्वादिभिर्हेतुभिर्निर्वर्त्यत इति कर्म ज्ञानावरणीयादि वक्ष्यमाणमष्टप्रकारम् । कथमेतत्सिद्धिः १ इति चेत्, उच्यते, इह आत्मत्वेनाविशिष्टानामात्मनां यदिदं देवासुरमनुजतिर्यगादिरूपं वैचित्र्यं तत्तावन्न निर्हेतुकमेष्टव्यम् । मा प्रापत्सदा भावादिदोषप्रसङ्गः । "नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् । " इतिवचनात् । सहेतुकत्वाभ्युपगमे च यदेवास्य हेतुस्तदेवास्माकं | कर्मेति मतमिति तत्सिद्धिः । तदुक्तम्- “आत्मत्वेना विशिष्टस्य, वैचित्र्यं तस्य यद्वशात् । नरादिरूपं तच्चित्रमदृष्टं कर्मसंज्ञितम् ॥ १ ॥” इति । तदपि च कर्म पुद्गलखरूपं प्रतिपत्तव्यं, नामूर्त्तम् । तथा सति ततः सकाशादात्मनामनुग्रहोपघातासंभवादाकाशादिव । यदाह – “अन्ने उ अमुत्तं चिय, कम्मं मन्नंति वासणारुवं । तं च न जुज्जइ तत्तो, उवधाया
ग्गहाभावा ॥ १ ॥ नागासं उबघायं अणुग्गहं वावि कुणइ सत्ताणं" इत्यादि । इति कृतं प्रसंगेन, गमनिकामान्त्रफल - त्वात्प्रयासस्य । ततस्तैः कर्मपुद्गलैः सहात्मनो वषयःपिण्डवदन्योऽन्यानुगमलक्षणः संबन्धो बन्धः, तस्य हेतवः सामान्यविशेषरूपा वक्ष्यमाणा मिथ्यात्वतद्भेदादिलक्षणाः । बन्ध उक्तस्वरूप एव तथा तेषामेव कर्मपुद्गलानां यथास्वस्थितिबद्धानामपवर्तनादिकरणविशेषतः स्वभावतो वा उदयसमयप्राप्तानां विपाकवेदनमुदयः । तेषामेवः च कर्मपुङ्गानामकालः ॐ ॥ ६ ॥ प्राप्तानां जीवसामर्थ्य विशेषादुदवावलिकायां प्रवेशनमुदीरणा । तथा तेषामेव कर्मपुद्गलानां बन्धसंक्रमाभ्यां लब्धात्मलाभानां निर्भरणसङ्क्रमकृतस्वरूपप्रच्युत्यभावे सति सद्भावः सत्ता । अल्पबहुत्वं गत्यादिरूपमार्गणास्थानादिषु जीवानां पर
टीकाद्वयो पेतम् ॥
אן