________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्परं स्तोकभूयस्त्वम् एतत् 'वक्ष्ये' अभिधास्ये । कथम् । इत्याह--"किंचित् स्वल्पं न विस्तरवत् । दुःषमानुभावेनापची| यमानमेधायुरादिगुणानामिदानींतनजनानां तथाऽभिधाने सति उपकारासंभवात्, तदुपकारार्थं च एष प्रकरणारम्भप्रयासः । उपकारमेव दर्शयति — 'सन्नाणसुझाणहेउ' इति संज्ञानं यथाऽवस्थितवस्तुतत्त्वावबोधात्मकमागमानुसारि विज्ञानं, सुध्यानं धर्मध्यानं, तयोर्हेतुः कारणम् । इदं जीवस्थानाद्यभिधानमितिकृत्वा जीवस्थानादिकं किंचिदभिधास्ये । किं स्वमनीषिकया ?, न इत्याह- 'सुगुरूपदेशात्' गृणाति शास्त्रार्थमिति गुरुः, स चानागमिकोऽपिं स्यात्, अतस्तद्व्यवच्छेदार्थ सुप्र| हणम् । शोभनः सर्वदैव सदागमनिष्णातो गुरुः, सुगुरुः, तस्योपदेशो यथाऽवस्थितजीवी जीवादिवस्तुतत्त्वयाथात्म्यनिर्देशस्तस्मात् । इह वक्ष्यमाणसकलंवक्तव्यतानिबन्धनं जीवा इति प्रथमतस्तेषामुपादानम् । ते च प्रपञ्चतो निरूप्यमाणा गत्यादि| मार्गणास्थानैरेव निरूपयितुं शक्यन्त इति । तदनन्तरं मार्गणास्थानग्रहणम् । तेषु च मार्गणास्थानेषु वर्तमाना जीवा न कदाचिदपि मिथ्यादृष्ट्याद्यन्यतमगुणस्थानकविकला भवन्तीति प्रतिपत्यर्थ मार्गणास्थानकानन्तरं गुणस्थानकग्रहणम् । अमूनि च गुणस्थानकानि ज्ञानादिरूपशुभपरिणामशुद्ध्यशुद्धिप्रकर्षापकर्षरूपाण्युपयोगवतामेवोपपद्यन्ते, नान्येषामाकाशादीनाम्, तेषां ज्ञानादिरूपपरिणामरहितत्वात् इति ज्ञापनार्थं गुणस्थानकानन्तरमुपयोगग्रहणम् । उपयोगवन्तश्च मनो| वाकायचेष्टासु वर्तमाना नियमतः कर्मसंबन्धभाजो भवन्तीति ज्ञापनायोपयोगग्रहणानन्तरं योगग्रहणम् । योगवशाश्चोपा| तस्यापि कर्मणो यावन्न कृष्णाद्यन्यतमलेश्यापरिणामो जायते तावन्न तस्य स्थितिपाकविशेषो भवति । “स्थितिपाकविशेष| स्तस्य भवति लेश्याविशेषेण” इतिवचनप्रामाण्यात् । ततो योगवशादुपात्तस्य कर्मणो लेश्याविशेषतः स्थितिविपाकविशेषो
For Private And Personal Use Only