________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पल
- ॐ
शुद्ध्यशुद्धिप्रकर्षापकर्षकृतः स्वरूपभेदः, तिष्ठन्त्यस्मिन् गुणा इतिकृत्वा गुणानां स्थानानि गुणस्थानानि वक्ष्यमाणानि | मिथ्यादृष्ट्यादीनि । 'उवओग' इति उपयोजनमुपयोगः, बोधरूपो जीवव्यापारः। कर्मणि वा घ । उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यत इत्युपयोगः। करणे वा घः । उपयुज्यते वस्तुपरिच्छेदं प्रति जीवोऽनेनेत्युपयोगः । सर्वत्र जीवस्वतत्त्वभूतोऽवबोध एवोपयोगो मन्तव्यः । 'जोग' इति योजनं योगः, जीवस्य वीर्य परिस्पन्द इतियावत् । कर्मणि वा घञ्। युज्यते धावनवल्गनादिक्रियासु व्यापार्यत इति योगः । यद्वा युज्यते संबध्यते धावनवल्गनादिक्रियासु जीवोऽनेंनेति योगः। 'नाम्नीति करणे घः प्रत्ययः । स च मनोवाक्कायलक्षणसहकारिकारणभेदात्रिधा वक्ष्यमाणस्वरूपः। लिश्यते |श्लिष्यते कर्मणा सहात्माऽनयेति लेश्या, कृष्णादिद्रव्यसाचिव्यादात्मनः शुभाशुभरूपः परिणामविशेषः । यदुक्तम्"कृष्णादिद्रव्यसाचिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्तते ॥१॥" इति । सा च पोढा, कृष्णलेश्या १ नीललेश्या २ कापोतलेश्या ३ तेजोलेश्या ४ पालेश्या ५ शुक्ललेश्या ६ । आसां च स्वरूपं जम्बूफलखादकषट्पुरुषीदृष्टान्तेनैवमवसेयम्-"जह जंबुपायैवगो, सुपक्कफलभरिण नमियसाहग्गो । दिह्रो छहिं पुरिसेंहि, ते बती जंबु भक्खेमो ॥१॥ किह पुण ते बितेगो, आरुहणे होज जीवसंदेहो। तो छिंदिऊण मूलाउ भक्खिमो ताइँ पाडेउं ॥२॥ वीआह किमम्हाणं, तरुणा छिन्नेण एम(म्म)हतेण । छिंदह महल्लसाहा, बेई तइओ पसाहाओ॥३॥गोच्छे चउत्थओ पुण, पंचमगो बेइ गिपूहह फलाई । चित्तूण खायह त्ति य, पडियत्ति य छडओ बेइ॥४॥ दिढतस्सोवणओ, छिंदह
१ "ताहि" इत्यपि पाठः । २-“साला" इत्यपि पाठः, एवमग्रेऽपि ॥
ACA
For Private And Personal Use Only