________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
H
षडशीतिप्रकरणम्
टीकाद्वयोपेतम् ॥
॥१२॥
OLARSANSAROKAR
हेयुः, तेषां भूतानां व्यञ्जकत्वप्रतिज्ञानात् । नाप्यन्यद्वाऽऽवरणं विचारपथमवतार्यमाणं घटामटाट्टि, वस्त्वन्तराभ्युपगमप्रस- ड्रेन चत्वार्येव पृथिव्यादीनि भूतानीति तत्त्वसंख्याव्याघातप्रसङ्गात् । न वै पृथिव्यादिभ्योऽन्यद्धस्त्वन्तरमावरणमिति ब्रूमः, किन्तु तेषामेव पृथिव्यादिभूतानां तथाविधविशिष्टपरिणामाभावः, ततो न कश्चिद्दोषः इति चेत्, न, तथाविधविशिष्टपरिणामाभावस्यैकान्ततुच्छरूपत्वेनाऽऽवारकत्वायोगात् । अन्यथा तस्याप्यतुच्छरूपतया भावरूपत्वे सति पृथिव्यादिभूतचतुष्टयान्यतमभूतरूपतापत्तेर्व्यञ्जकृत्वप्रसङ्गः। अथोच्यते-नासौ तथाविधविशिष्टपरिणामाभावस्तुच्छरूपा, किन्तु परिणामान्तरम् , ततः कथमावारकत्वायोगः? इति, न, तस्यापि भूतपरिणामतयाभूतस्वभावत्वाद् भूतवव्यञ्जकत्वेऽस्यै(त्वस्यै-) वोपपत्ते वारकत्वस्येति यत्किश्चिदेतत् । नापि भूतकार्यमिदं चैतन्यम् , अत्यन्तवैलक्षण्येन भूतचैतन्ययोः कारणकार्यभावस्यानुपपत्तेः । तथाहि प्रत्यक्षत एव काठिन्याबोधस्वरूपाणि भूतानि प्रतीयन्ते, चैतन्यं च तद्विलक्षणम् , ततः कथमनयोः कार्यकारणभावः ?, यदाह- काठिन्याबोधरूपाणि, भूतान्यध्यक्षसिद्धितः । चेतना च न तद्रूपा, सा कथं तत्फलं भवेत् ॥१॥" तदेवं न भूतधर्मो भूतकार्य वा चैतन्यम् , अस्ति चैतत्प्रतिप्राणिस्वसंवेदनप्रमाणसिद्धम् । तत एतदन्यथानुपपत्त्या स यथोक्तलक्षणो जीवः प्रतीयते । तस्यैव चिद्रूपाऽमूर्ततया चैतन्यं प्रत्यनुरूपत्वेन तद्धर्मित्वोपपत्तेः, इति कृतं प्रसंगेन, विस्तरार्थिना तु धर्मसंग्रहणिटीकाऽनुसतव्या । तेषां जीवानां स्थानानि, सूक्ष्मापर्याप्तैकेन्द्रियत्वादयोऽवान्तरविशेषाः, तिष्ठन्त्येषु जीवा इतिकृत्वा जीवस्थानानि । मार्गणं जीवादीनां पदार्थानामन्वेषणं मार्गणा तस्याः स्थानानि आश्रया मार्गणास्थानानि वक्ष्यमाणानि गत्यादीनि । गुणा ज्ञानदर्शनचारित्ररूपा जीवस्वभावविशेषाः, स्थानं पुनरेतेषां
॥५॥
For Private And Personal Use Only