SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir दिति पार्थः रागद्वेषादिशत्रुजेतृत्वाजिनः स चासौ पार्श्वश्च जिमपार्श्वस्तम् । ननु यो जिनपार्श्वः स निच्छिन्नमोहपाशादिविशेषणकलापोपेत एव भवतीति किमेतेषां विशेषणानामुपादानेन निरर्थकत्वात् , न, नामादिरूपजिनपार्धादिव्यवच्छेदकारितया तेषामपि सफलत्वात् । एवं व्यादिसंयोगापेक्षयाऽपि विचित्रनयमताभिज्ञेन यथाशक्ति विशेषणसाफल्यं वाच्यम् । तमेवंभूतं जिनपार्श्व प्रयतः प्रणम्य ॥१॥ किम् ? इत्याह-इह स्थानशब्दः प्रत्येकमभिसंबध्यते । जीवस्थानानि मार्गणास्थानानि गुणस्थानानि । तन्न जीवति प्राणान् धारयतीति जीवः। क इत्थंभूतः इति चेत् , उच्यते, यो मिथ्यात्वादिकलुषितरूपतया सातादिवेदनीयादिकर्मणामभिनिवर्तकः, तत्फलस्य च विशिष्टसातादेरुपभोक्ता, नारकादिभवेषु च यथाकर्मविपाकोदर्य संसर्ता, सम्यग्दर्शनादिरलत्रयाभ्यासप्रकर्षवशाचाशेषकर्माशाऽपैगमतः पैरिनिर्वाता स जीव आत्मा । यदुकम्-"यः कर्ता कर्मभेदानां, भोक्ता कर्मफलस्य च। संसर्ता परिनिर्वाता, सह्यात्मा नान्यलक्षणः ॥१॥” इति । कथं तत्सिद्धिः ? इति चेत्प्रतिप्राणिस्वसंवेदनप्रमाणसिद्धचैतन्याऽन्यथानुपपत्तेः । तथाहि नेदं चैतन्य नाम भूतधर्मः, तद्धर्मत्वे सति पृथिव्याः काठिन्यस्येव तस्य सर्वदोपलम्भप्रसङ्गात् । कदाचिदनँभिव्यक्तिभावान्न सर्वदोपलम्भ इति चेत्, न, आवरणाभावेनानमिव्यक्तेरेवानुपपद्यमानत्वात् । कथमावरणाभावः इति चेत्, एते ब्रूमः, विकल्पाभ्यामयोगात् । तथाहि-किं तास्येव भूतान्यावरणं भवेयुः, अन्यद्वा? इति विकल्पद्वयीगत्यन्तराभावात् , तत्र न तावत्तान्येव भूतान्यावरणीभवितुम-1 १ उपार्जकः । २ विनाशवा । ३ मोक्षं गन्ता । "तदुक्तम्" इत्यपि । ५ चार्वाको वदति । ६ अस्ति जीव इति पक्षः । ७.अप्रकट-1८ वयं जैनाः ।। SACROREASERATORS For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy