________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षडशीतिप्रकरणम्
॥१२॥
पि कुवादिमतव्यवच्छेदफलतया सार्थकत्वात् । तथाहि-इह आजीविकनयमतानुसारिणो गोशालकशिष्याः प्रसृतविम-पाटीकाद्वयोलोरुकेवलप्रकाशमपि न तत्त्वतो निच्छन्नमोहपाशमभिमन्यन्ते, अवाप्तमुक्तिपदा अपि तीर्थनिकारदर्शनादिहागच्छन्तीति- | पेतम् ॥ वचनात् । तत्त्वतो निच्छिन्नमोहपाशस्य चेहागमनासंभवात् ततस्तव्यवच्छेदार्थ निच्छिन्नमोहपाशग्रहणम् । एनमेव परार्थसंपदा विशेषयति-'पणयजणपूरियासं प्रणता ये जनाः तेषां पूरिता आशा मनोरथा येन स प्रणतजनपूरिताशस्तम् ।। प्रणतजनानां चाशाः पूर्यन्ते भगवता सकलदेवासुरमनुजतिर्यग्गणसाधारण्या वाण्या निःश्रेयसाभ्युदयसाधनोपायप्रदर्शनेन, नान्यथा। यदुक्तम्-“अरिहंता भगवंतो, अहियं च हियं च नवि इहं किंचिं। वारेंति कारवेंति य, घेत्तूण जणं बला हत्थे॥१॥ उवएस पुणतं दिति जेण चरिएण कित्तिनिलयाणं । देवाणवि होंति पहू, किमंगपुण मणुयमत्ताण ॥२॥" इत्यादि। ननु यो निच्छिन्नमोहपाशः प्रसृतविमलोरुकेवलप्रकाशश्च स प्रणतजनपूरिताश एव भवति, ततः किमनेन विशेपणेन दानादिप्रकारेण ?, सामान्यकेवलिब्यवच्छेदार्थत्वात् , ते हि यथोक्तविशेषणद्वयविशिष्टा अपि सन्तो न भगवानिव | सकलजगदुपकारकरणैकतानाः, ततस्तव्यवच्छेदार्थ प्रणतजनपूरिताशग्रहणम् । यद्येवं तर्हि प्रणतजनपूरिताशमित्येतदेवास्तां अलं निच्छिन्नमोहपाशादिग्रहणेन, तदयुक्तं, माण्डलिकादयोऽपि हि तथाविधतुच्छद्रव्यादिमात्रवितरणैकरसिका लोके प्रणतजनपूरिताशा इति प्रतीताः, ततस्तत्कल्पं भगवन्तं प्रणामाई मा ज्ञासिषुरिति तव्यवच्छेदार्थ निच्छिन्नमोहपाशादिग्रहणम् । कमेवंभूतम् ' पुनः प्रयतः प्रणम्येत्यतो विशेष्यमाह-'जिनपार्श्व' पश्यति यथावस्थितं सकलमपि जग
१ पार्श्वजिनमेव । २ "किपि" इत्यपि । ३ "ते" इत्यपि ॥
For Private And Personal Use Only