________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विरतो वा भवतीति , सत्यम् , अपराचार्यमतेनाविरतादयोऽपि प्रारम्भका इति । येत उक्तम्-“अने भणंति अविरय-151 देसपमत्तापमत्तविरयाणं । अन्नयरो पडिवजइ, दंसणसमणम्मि उ नियट्टी ॥१॥" चतुर्थपादस्यायमर्थः-दर्शनत्रिकोपशमे सति निवृत्तिबादरो भवतीति । औपशमिकसम्यक्त्वं तूपशमश्रेण्यां प्रथमसम्यक्त्वलाभे वा भवति जीवस्य । उक्तं च-"उवसामगसेढिगयस्स होइ उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो, अखवियमिच्छो लहइ सम्मं ॥१॥" अत्राह परः-ननु क्षायोपशमिकौपशमिकसम्यक्त्वयोः कः प्रतिविशेषः, उच्यते-क्षायोपशमिकसम्यक्त्वे मिथ्यात्वदलिकवेदनं विपाकतो नास्ति, प्रदेशतः पुनर्विद्यते । औपशमिके तु प्रदेशतोऽपि नास्तीति विशेषः। एवं सप्रपञ्चं सम्यक्त्वद्वारे बन्धस्वामित्वमभिहितमिति १२॥ 'ओषो सण्णि.' इत्यादि ओघबन्धः कर्मस्तवोक्तः 'संज्ञिषु' मनोविज्ञानवत्सु ज्ञेयः ।। तद्यथा--सामान्येन १२० । मि० ११७ । इत्यादिकः पूर्ववदिति । तथा मिथ्यादृष्टिभङ्गकः 'असंशिषु' मनोविज्ञानविकलेषु । ज्ञेय इति पूर्वेण योगः। तद्यथा-मि० ११७ । इति गाथार्थः॥ ५२॥ ____ अथ गाथायाः पूर्वार्द्धन सासादनेऽसंज्ञिबन्धं समर्थयन्नपरार्दुनाहारकद्वारे सप्रतिपक्षे तमेवाह-. साणेवि असण्णिस्सा, भंगा सपणुब्भवा मुणेयवा आहारगेसुओघो, इयरेसुय कैम्मणो भंगो ॥५३॥
व्याख्या-सासादनेऽप्यसंज्ञिनो भङ्गः संइयुद्भवो मुणितव्यः । तद्यथा-सा० १.१ । इह सूत्रे बहुवचनं प्राकृतशैलीवशाद् । इति संज्ञिद्वारे बन्धोऽभिहित इति १३ ॥ 'आहारगेसु ओघो' इति आहारकेष्वोषबन्धः कर्मस्तवोक्तः। तद्यथा
१“यदुक्तम्-" इत्यपि । २ "कम्मुणो" इत्यपि पाठः॥
For Private And Personal Use Only