________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CARCANAGAR
'अहखाय' इति विभक्तिलोपाद्यथाख्यातस्य, तथा देशविरतस्य स्वस्थाने भवति बन्धः। तथा मिथ्यात्वादिषु चतुर्वसंयतस्यापि, न केवलं प्राकनेषु इत्यपिशब्दार्थः, ओघबन्धः । तद्यथा प्रथमसंयमयोः-प्र० ६३ । अ० ५९ । नि०५८, ५६, २६ । अ० २२, २१, २०, १९, १८ । परिहारविशुद्धिकस्य-प्र०६३ अप्र०५९। सूक्ष्मस्य-सू०१७ । यथाख्यातस्य-उ०१।क्षी०१। स०१। अ०-०। देशविरतस्य-दे०६७ । असंयतस्य-मिथ्या० ११७ । सा०-१०१ मि. ७४ । अ०७७। इति गाथाद्वयार्थः॥ ३८॥
इति संयमद्वारे देशसंयमासंयमाभ्यां युक्ते बन्धस्वामित्वमुक्तम् ८॥ साम्प्रतं दर्शनद्वारे सगुणस्थानके तन्निरूपयन्नाहचक्खुअचक्खू ओघो, मिच्छाई खीणमोह ओहिस्स। अजयाइनवसु केवलदसण केवलिदुगे चेव ॥३९॥ ___ व्याख्या-चक्षुरचक्षुर्दर्शनयोमिथ्यागादि 'खीणमोह' इति प्राकृतवशात्पदैकदेशेऽपि पदावगमाक्षीणमोहान्तेष्वोधबन्धः। तद्यथा-सामान्यतः १२० । मि० ११७ । सा० १०१ । मि०७४ । अ०७७ । दे०६७।०६३ । अ० ५९ । नि०५८,५६, २६ । अ० २२, २१, २०, १९, १८ । सू०१७ । उ०१।क्षी०१ तथा 'ओहिस्स' इति विभक्तिव्यत्ययादवधिदर्शने अयतादिवविरतसम्यग्दृष्ट्यादिषु नवस्वितिभणनात्क्षीणमोहान्तेष्विति लभ्यते ओघबन्धः । तद्यथाअविरतस्य सतसप्तति ७७ रित्यादिरनन्तरं दर्शित एवेति । 'केवलदसण' इति विभक्तिलोपात्केवलदर्शने 'केवलिदुगे चेव' इति केवलिसत्कसयोग्ययोगिगुणस्थानकद्विके चौघबन्ध इति पूर्वेण संबन्धः। तद्यथा-स०१।०-०। इति गाथार्थः ३९॥
१ "गुणस्थानकेषु" इत्यपि पाठः ॥
AAAAAAAAAAAA
For Private And Personal Use Only