________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमसमयेषु कार्मणकाययोगे सातमेवैकं १ बध्नन्तीत्यत्रापि प्राक्तनेन संबन्धः । एवं च कार्मणकाययोगो मिथ्यात्वसासादनाविरतसयोगिगुणस्थानकचतुष्टय एव लभ्यते, नान्यत्र । इति गाथार्थः॥ ३४॥
एवं योगेषु बन्धस्वामित्वमुक्तम् ४ ॥ साम्प्रतं वेदद्वारे कषायद्वारे च तत्प्रतिपादयन्नाहवेयतिएवोघेणं, बंधोजा बायरो हवइ ताव । कोहाइसु चउसोघो, मिच्छाओ जाव अनियहि ॥३५॥
व्याख्या-'वेदत्रिकेऽपि' स्त्रीवेदपुरुषवेदनपुंसकवेदरूपे 'ओपेन' सामान्येन बन्धः कर्मस्तवोक्तो यावदनिवृत्तिबादरगुणस्थानकं तावद्भवति, ततः परं वेदानामभावादिति। तद्यथा-सामान्येन १२० । मि० ११७ । सासादन १०१। मिश्र ७४||
अविरत ७७। दे०६७। प्र०६३ । अ० ५९ । नि०५८,५६, २६ । अ० २२, २१, २०, १९, १८॥ इति वेदेषु बन्धदस्वामित्वमुकम् ५॥ तथा क्रोधादिषु चतुर्वोघबन्धो मिथ्यादृष्टेरारभ्य यावदनिवृत्तिबादरगुणस्थानकम् । तद्यथासामान्येव १२०, मि० ११७, सा० १०१, इत्यादिकोऽनन्तरोक्तो वेदद्वारवत् । इति गाथार्थः ॥ ३५॥
इति कषायबारे बन्धस्वामित्वमुक्तम् ६॥ साम्प्रतं ज्ञानद्वारे गुणस्थानकगर्ने यथायोगं तदारभ्यतेअण्णाणतिएवोघो, मिच्छासाणेसु नवसुनाणतिए।मणपजवेविसत्तसु, ओघं दुसु केवलिस्सावि ॥३६॥ . व्याख्या-'अज्ञानत्रिकेऽपि' मत्यज्ञानश्रुताज्ञानविभङ्गरूपे मिथ्यादृष्टिसासादनगुणस्थानकयोरुपलक्षणत्वान्मिश्रे चौघबन्धः। तथा 'ज्ञानत्रिके मतिज्ञानश्रुतज्ञानावधिज्ञानलक्षणे 'नवसु'गुणस्थानकेष्वविरतसम्यग्दृष्ट्यादिक्षीणमोहान्तेष्वोघबन्ध
१"-गुणस्थानकं यावदुपल०" इत्यपि ॥
For Private And Personal Use Only