________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|न्द्रियविकलेन्द्रियाःसासादना बन्नन्ति । पञ्चेन्द्रियाः पुनः चशब्दस्य पुनरर्थस्यात्र योजनात् 'ओधेन' सामान्येन विंशत्युत्तरशतं १२० 'बन्धे' इति प्राकृतत्वानन्तीति,अत्रोपलक्षणत्वान्मिथ्यात्वादिषु च कर्मस्तवोक्तबन्धो द्रष्टव्यः । इति गाथार्थः२२॥
अत्रैवैकेन्द्रियविकलेन्द्रियेषु सासादनमाश्रित्य मतान्तरमाहइगिविगलिंदी साणा, तणुपज्जतिंन जंतिजं तेण । नरतिरियाउअबंधा, मयंतरेणं तु चउणउइं॥२४॥
व्याख्या-एकेन्द्रियविकलेन्द्रियाः सासादनाः सन्तः 'तनुपर्याप्तिं' शरीरपर्याप्तिं 'न यान्ति' न गच्छन्ति, 'यद्' यस्माद्धेतोस्तेन ते नरतिर्यगायुरबन्धा इति मतान्तरेण पुनश्चतुर्नवर्ति ९४ बघ्नन्तीति । अत्र भावार्थ:-पूर्वमतेन शरीरपर्याप्युत्तरकालमपि सासादनभावस्येष्टत्वादायुर्वन्धोऽभिप्रेतः। इह तु प्रथममेव तन्निवृतंर्नेष्टः । इति गाथार्थः॥२४॥
उक्तमिन्द्रियेषु बन्धस्वामित्वम् २॥ साम्प्रतं कायेषु तदुच्यतेभूदगवणकाया एगिदिसमा मिच्छसाणदिडीओ।मणुयतिगुच्चं मोत्तुं, सुहुमतसा ओघ थूलतसा॥२५॥
व्याख्या-अत्रैवं योजना कार्या-मिथ्यादृशः सासादनसम्यग्दृशश्च भूदकवनस्पतिकाया एकेन्द्रियसमाः । एकेन्द्रि-3 याणां तु पूर्वमिदमुक्तम् , तद्यथा-ओघतः १०९, मि. १०९, सा०९६ । प्रागुक्तमतान्तरेण तु चतुर्नवतिरपि ९४ द्रष्टव्या । तथा 'मणुय' इत्यादि, अस्यायमर्थः-पूर्वोक्कैकेन्द्रियविकलेन्द्रियसत्कान्नवाग्रशतान्मनुजत्रिकोच्चैर्गोत्रं मुक्त्वा 'सूक्ष्मत्रसाः' तेजोवायुकायजीवाः पञ्चोत्तरशतं १०५ बध्नन्ति । तथा 'ओघ' इति, अनुस्वारलोपादोघं विंशत्युत्तरशतादि
१"-ऽभिहितः" इत्यपि ॥
AAKASARGAAASANAS
For Private And Personal Use Only