SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बन्धस्वा मित्वम् ॥१०७॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लक्षणं कर्मस्तवोक्तं 'स्थूलत्रसाः' त्रसकायिका बनन्तीति शेषः । अङ्कतः स प्रागेव दर्शितः । इति गाथार्थः ॥ २५ ॥ एवं कायेषु बन्धोऽभिहितः ३ ॥ साम्प्रतं योगेषु तं प्रतिपादयन्नाह - मणवइजोगचउक्के, ओघो उरलेवि ओघनरभंगो । निरतिगसुराउआहारगं तु हिच्चा उ तंमीसे ॥ २६ ॥ व्याख्या- 'मैनोवाग्योगचतुष्के' इति 'चतुष्कशब्दस्य प्रत्येकमभिसंबन्धान्मनोयोगचतुष्के वाग्योगचतुष्के वेत्यर्थः, सत्य १ मृषा २ मिश्रा ३ ऽसत्यामृषाख्ये ४ । एतत्स्वरूपं संक्षेपत इदम्- 'अस्ति जीवः' इत्यादिचिन्तनपरं सत्यम् । एतद्विपरीतं मृषा । तथा धवखदिरादिषु वृक्षेषु सत्सु खदिरवनमिदमिति मिश्रम् । सत्यमृषाविकलमसत्यामृषं आज्ञापनादि, यथाहे देवदत्त ! घटमानय, धर्मे कुरु, भिक्षां देहीति । विस्तरव्याख्यानं तु ग्रन्थान्तरादवसेयं, गमनिकामात्रत्वात्प्रस्तुतप्रयासस्येति । ओघबन्ध विंशत्युत्तरशतादिणः १२० कर्मस्तवाभिहितो विज्ञेय इति शेषः । तथौदारिकेऽपि 'ओघनरभङ्गः' सामान्यमनुष्य भङ्गको द्रष्टव्य इति शेषः, अङ्कत उभयेऽपि भङ्गकाः प्राक् प्रदर्शिता एव । तथा नरकत्रिकसुरायुराहारकद्विकं विहितसमाहारद्वन्द्वसमासं प्रकृतिषङ्कं विंशत्युत्तरशतमध्यादिति शेषः, हित्वा शेषस्य चतुर्दशाधिकशतस्य ११४ 'तन्मिश्रे' | त्वौदारिकमिश्रे सामान्येन बन्ध इति शेषः । सुरद्विकभावना सप्तमनरकपृथिव्या नरद्विकभावनावद्द्रष्टव्या । इति गाथार्थः २६ ॥ अथौदार मिश्रेsपि गुणस्थानकविशिष्टं तमाह - सुरदुगविउब्वियदुगं, तित्थं हिच्चा सयं नवग्गं तु । बंधंति उरलमिस्से, मिच्छा उ सजोगिणो सायं २७ १ " मनोयोगवा ०" इत्यपि । २ " त्वादेतत्प्र०" इत्यपि ॥ For Private And Personal Use Only सटीकम् । ॥ १० ॥
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy