________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बन्धवामित्वम्
सटीकम् ।
॥१०६॥
ROCHAKAC
९६ मिथ्यादृशो बन्नन्ति । तथा पण्णवतेमध्यात् 'नपुंसकचतुष्क' सेवार्तसंहननहुण्डसंस्थाननपुंसकवेदमिथ्यात्वलक्षणं मुक्त्वा शेषां द्विनवतिं ९२ सासादना बभन्ति, तथा द्विनवतेमध्यात्तिर्यत्रिकोयोतोनां 'पञ्चविंशति' एकविंशतिमित्यर्थः, किंविशिष्टाम् ? 'सनरायुष' नरायुर्युक्तां द्वाविंशतिमित्यर्थः, 'मुक्त्वा' त्यक्त्वा शेषां मिश्राः सप्तति ७० बन्नन्ति । तथा सप्ततिं च नरायुस्तीर्थकराभ्यां सहाविरता बनन्ति ७२ । तुशब्दाद्विशेषानभिधानेऽपि मिथ्यात्वादिगुणस्थानक|त्रयाभावात्पश्चोत्तरविमानदेवा एतामेवाविरतगुणस्थानकसत्कां द्विसप्ततिं ७२ बन्नन्ति । इति गाथार्थः ॥ २१ ॥
इति देवगतौ बन्धस्वामित्वमुक्तम् , तद्भणनाच्च गतिबन्धमार्गणा समाप्ता १॥ साम्प्रतमिन्द्रियेषु तदारभ्यतेतित्थाहारं निरयसुराउं मोतुं विउविछकं च । इगविगलिंदी बंधहि, नवुत्तरं ओघ मिच्छा य ॥२२॥
व्याख्या-'तित्थाहारं' इति, द्विकशब्दो लुप्तो द्रष्टव्यः । ततस्तीर्थकरा १ऽऽहारकद्विकं ३, नरकायुः ४, सुरायुः ५, 'वैक्रियषदं च वैक्रियशरीर ६ तदङ्गोपाङ्ग ७ सुरगति ८ सुरानुपूर्वी ९ नरकगति १. नरकानुपूर्वीलक्षणं ११ विंशत्युत्तरशतमध्यादिति शेषः, मुक्त्वा शेष नवोत्तरं शतमिति गम्यते १०९, 'ओघ' इति प्राकृतत्वात् सामान्यपदेन मिथ्यादृशश्च १०९ एकेन्द्रियविकलेन्द्रिया बनन्ति । इति गाथार्थः ॥२२॥ ____ अथ गाथायाः प्रथमार्द्धन तेषां सासादने बन्धं समर्थयन्नपरार्द्धन पश्चेन्द्रियेषु तमाहसाणा बंधहिँ सोलस, निरतिगहीणा यमोत्तु छन्नउइं। ओघेणं वीसुत्तर-सयं च पंचिंदिया बंधे ॥२३॥ व्याख्या-अत्रापि पदघटनैवं कार्या-नरकत्रिकहीनाश्च षोडश प्रकृतीनवोत्तरशतमध्यान्मुक्त्वा शेषां षण्णवति ९६ मेक
+
॥
९
+
For Private And Personal Use Only