SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकम्। बन्धस्वामित्वम् ॥९८॥ SASARASRESS र्थाधिपतित्वेन परमोपकारित्वात् । कीदृशम् ? गतिरादिर्येषां तानि गत्यादीनि तानि च तानि स्थानानि च गत्यादिस्थानानि तेषां देशकः प्रतिपादको गत्यादिस्थानदेशकस्तम् । तथा सितं बर्द्ध ध्मातं भस्मसात्कृतमष्टप्रकारं कर्म येन स सिद्धस्तम् । इति गाथार्थः॥१॥ गत्यादीन्येवाहगह इंदिए य काए, जोए वेए काय नाणे य । संजम दंसण लेसा, भव सम्मे सण्णि आहारे ॥२॥ व्याख्या-तत्र 'गतयों' नरकगत्याद्याश्चतस्रः । 'इन्द्रियाणि' स्पर्शनादीनि पञ्च । 'काया' पृथिव्यादयः षट् । 'योगा'। सत्यमनःप्रभृतयः पञ्चदश । 'वेदाः' स्त्रीवेदादयस्त्रयः। 'कषायाः क्रोधोदयश्चत्वारः। 'ज्ञानानि' मतिज्ञानादीनि पञ्च । इहोपलक्षणत्वेन विपक्षस्यापि संग्रहादज्ञानान्यपि मत्यज्ञानादीनि त्रीणि ग्राह्याणि । एवमुत्तरत्रापि क्वाप्युपलक्षणव्याख्यानं द्रष्टव्यम् । ननु ज्ञाने प्रस्तुते उपलक्षणत्वेन किमर्थमज्ञानत्रयग्रहणं कृतम् , सत्यं, सौम्य ! चतुर्दशमार्गणास्थानेषु प्रत्येक सर्वसांसारिकसत्त्वसंग्रहार्थम् । तथा 'संयमः' सामायिकादिः पञ्चप्रकारः। उपलक्षणत्वादेशसंयमासयमौ च, इत्येते सप्तात्रापि ग्राह्याः। 'दर्शनानि चक्षुर्दर्शनादीनि चत्वारि । 'लेश्या' कृष्णलेश्याद्याः षट् । भवपदेन भव्याभव्यौ द्वौ ग्राह्यौ । 'सम्यक्त्वानि' वेदकादीनि त्रीणि । संज्ञिपदेन संझ्यसंज्ञिनौ द्वौ । आहारकपदेन आहारकानाहारको द्वौ गृहीतौ । इति द्वारगाथासमासार्थः॥२॥ इह यद्यपि गत्यादिषु बन्धस्वामित्वं वक्ष्यामीति प्रागुक्तं तथाऽपि न तद्गुणस्थानकनिरपेक्षं वक्ष्यते । गुणस्थानकाना SASSASSIERRIERRARASHNEE ॥१ ॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy