SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मपि बन्धस्वामित्ववद्गत्याद्याश्रितत्वादिति गुणस्थानकानि । तथा गत्याद्याश्रितत्वेनैव सुरनिरयनरतिरश्चां पर्याधापर्याप्तकजीवस्थानयोरपि बन्धस्वामित्वस्य वक्ष्यमाणत्वादिति जीवस्थानानि च गतिषु दर्शयन्नाहगुणठाणासुरनिरए, चउ पण तिरिएसुचउदस नरेसु जीवट्ठाणा तिरिए, चउदस सेसेसु दगदगंजाण गीतिरियम् ॥ व्याख्या-इह यथासंभवं सर्वत्र लिङ्गव्यत्ययविभकिलोपादिकं प्राकृतत्वाइष्टव्यम् । ततश्च गुणस्थानकानि-"मिच्छहिही सासा-यणे य तह सम्ममिच्छदिही य। अविरयसम्मदिही, विरयाविरए पमत्ते य॥१॥ तत्तो य| अप्पमत्ते. नियट्टि अनियट्टिबायरे मुहुमे । उवसंत खीणमोहे, होइ सजोगी अजोगी य ॥२॥" इति नामकानि । एतानि चक कियन्ति भवन्ति? इत्याह-सुरनारकयोश्चत्वारि प्रत्येकमाद्यानि जानीहि, इति संबन्धः । तथा पश्च तिर्यक्ष आद्यान्येव । तथा चतुर्दश नरेषु । इति योजितानि चतसृष्वपि गतिषु गुणस्थानकानि, सम्प्रति तास्वेव जीवस्थानानि योजयन्नाह-जीवस्थानानि-"सुहमा बायर बेई-दिया य तेइंदिया य चउरिंदी। अस्सण्णी सण्णी खलु, चउदस पजत्त अपजत्ता ॥१॥” इत्येवंरूपाणि । एतानि च केषु कियन्ति भवन्ति? इत्याह-तिर्यक्षु चतुर्दश । 'शेषेषु' सुरनरनारकेषु द्विक द्विक जीवस्थानयोरिति शेषः । पर्याप्तापर्याप्तकसंज्ञिपञ्चेन्द्रियलक्षणं 'जानीहि अवबुध्यस्वेति । ननु संमूर्छनजापर्याप्सलक्षणं नरेषु तृतीयमपि जीवस्थानकमस्ति तत्कथमत्र न गृहीतम् !, इत्यत्रोच्यते-तिर्यग्ग्रहणेन तेषां ग्रहणादिति न दोषः । इति गाथार्थः ॥३॥ इह बन्धस्वामित्वं वक्ष्य इत्युक्तम् । बन्धश्च कर्मप्रकृतीनां भवति, अतः शिष्यहितार्थ सूत्रेऽनुक्का अपि प्रथमं प्रकृतयः For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy