________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अहम् ॥ ॥ न्यायाम्भोनिधि-प्रतिभाप्रतिकृति-श्रीमद्विजयानन्दसूरीश्वरपादपद्मेभ्यो नमः॥ बन्धस्वामित्वाख्यस्तृतीयः कर्मग्रन्थः।
श्रीमद्हरिभद्रसूरिविरचितव्याख्ययोपेतः। गत्यादिमार्गणास्थान-बन्धस्वामित्वदेशकम् । नत्वा वीरं जिनं वक्ष्ये, बन्धस्वामित्ववृत्तिकाम् ॥१॥ इह स्वपरोपकाराय यथार्थाभिधानं बन्धस्वामित्वप्रकरणमारिप्सुराचार्यों मङ्गलादिप्रतिपादकं गाथासूत्रमिदमाह-.
नमिऊण वद्धमाणं, गइयाईठाणदेसयं सिद्धं । गइयाइएसु वोच्छं, बंधस्सामित्तमोघेणं ॥१॥
व्याख्या-इह प्रथमार्डेन मङ्गलं द्वितीयार्द्धनाभिधेयं साक्षादुक्तम् । प्रयोजनसंबन्धौ तु सामर्थ्यगम्यौ, इति गाथास४ मुदायार्थः । अवयवार्थस्त्वयम्-'वक्ष्ये' अभिधास्ये, किं तद् ? 'बन्धस्वामित्वं' मिथ्यात्वादिभिर्बन्धहेतुभिः कर्मपरमा
णूनां जीवप्रदेशैः सह सैबन्धो बन्धस्तस्य स्वामित्वमाधिपत्यं बन्धस्वामित्वं, जीवानामिति गम्यते । केषु ? 'गइयाइ|एसु' इति, गत्यादिमार्गणास्थानेषु, केन ? 'ओपेन' सामान्येन, किं कृत्वा ? 'नत्वा' प्रणम्य, कम् ? 'वर्द्धमानं, स्वकुलसमृ|द्धिवृद्धिकारकत्वेन पितृभ्यां व्यवस्थापितैवंविधनामकं चरमतीर्थाधिपतिं, शेषजिनत्यागेन च वर्द्धमानग्रहणं वर्तमानती
For Private And Personal Use Only