________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| स्वभावतस्तिर्यग्वेद्या एव । तेषु च देशविरतान्तान्येव गुणस्थानानि संभवन्ति नोत्तराणि इत्युत्तरेषु तदुदयाभावः । उद्यो तनाम्नस्तु यतिवैक्रियेऽप्युदयसंभवः । तथा चोक्तम् - " उत्तरवेउब देवजति" इति, स त्विहाचार्येण वैक्रियोदयवन्न विवक्षितः । नीचैर्गोत्रं तु तिर्यक्षु गतिस्वामाण्याद्भुवौदयिकं न परावर्तते । ततश्च देशविरतस्यापि तिरश्वो नीचैर्गोत्रोदयोऽस्त्येव । मनुजेषु तु सूर्वस्य देशविरतादेर्गुणिनो गुणप्रत्ययादुच्चैर्गोत्र मेवोदेतीति उत्तरत्र नीचैर्गोत्रोदयाभावः । ततश्चैता अष्टावपि देशविरत एवोदयं प्रतीत्य व्यवच्छिन्नाः ॥ २९ ॥ थीणतिगं चेव तहा, आहारदुगं पमत्तविरयंमि ।
पूर्वार्द्धम् । स्त्यानर्धित्रयं पूर्वोक्तम्, तथा 'आहारकद्वयं ' आहारकशरीराहारकाङ्गोपाङ्गाख्यम्, इत्येतत् प्रकृतिपञ्चकं प्रमत्तविरते व्यवच्छिन्नमुदयं प्रतीत्य । तत्र स्त्यानर्द्धित्रयोदयः प्रमादरूपत्वादनमत्ते न संभवति । आहारकं च शरीरं विकुर्वाणो यतिरवश्यं प्रमादवशगो भवति । यत्त्विदमन्यत्र श्रूयते - प्रमत्तयतिराहारकं विकृत्य पश्चाद्विशुद्धिवशात्तत्रस्थ एवाप्रमत्ततां यातीति तदाचार्येण वैक्रियोदयन्यायेन न विवक्षितम् ॥
सम्मत्तं संघयणं, अंतिमतिगमप्पमत्तंमि ॥ ३० ॥ 'सम्मत्तं' इत्यादि पश्चार्द्धम् । सम्यक्त्वं, तथा 'संहननानामन्त्यत्रय' इति, अर्द्धनाराचकीलिका सेवार्त्ताख्यं इत्येताश्चतस्रः प्रकृत्तय उदयं प्रतीत्याप्रमत्ते व्यवच्छिन्नाः । तत्र सम्यक्त्वे क्षपिते उपशमिते वा श्रेणिद्वयमारुह्यत इत्यपूर्वकरणादौ तदुदयाभावः । चरमसंहननत्रयोदये तु श्रेणिरारोढुं न शक्यते, तथाविधविशुद्धेरभावादित्युत्तरेषु तदुदयाभावः ॥ ३० ॥
For Private And Personal Use Only