________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मस्तवः
॥१२॥
CIRCE%ACARS50
दुर्भगं, अनादेयं, अयश-कीर्तिः, इत्येताः सप्तदश प्रकृतय उदयं प्रतीत्याविरतसम्यग्दृष्टौ व्यवच्छिन्नाः । द्वितीयकषायो-I&ादीकोपेता। दये देशविरतेरपि लाभः श्रुते प्रतिषिद्धः, 'बीयकसायाणुदये' इत्यादिना । नापि पूर्वप्रतिपन्नदेशविरत्यादेजीवस्य तदुदय-12 संभवः, तेनोत्तरेषु तदुदयाभावः। देवनरकायुषी देवगतिद्वयं नरकगतिद्वयं च यथास्वं देवनारकवेद्यमेव, न च तेषु देशविरत्यादेः संभवः। वैक्रियशरीरबैक्रियाङ्गोपाङ्गनाम्नोस्तु देवनारकेषूदयः । तिर्यडअनुष्येषु त्वप्राचुर्येणाविरतसम्यग्हध्यान्तेषु । यस्तृत्तरगुणस्थानेष्वपि केषांचिदागमे विष्णुकुमारस्थूलभद्रादीनां वैक्रियद्वितयस्योदयः श्रूयते, स इहाचार्येण न विवक्षितः, किं प्रविरलतरत्वात् , आहोस्विदन्यः कोऽप्यभिप्रायः?, इतिन विद्मः।तियङमनुजानुपूयोस्तु परभवादिसम| येषु त्रिवपान्तरालगतावुदयसंभवः, स च यथायोगं तिथंडअनुष्याणां वर्षाष्टकादुपरिष्टात्संभविषु देशविरत्यादिगुणस्थानेषु न संभवति । दुर्भगमनादेयमयश-कीर्तिरित्येतास्तु तिस्रः प्रकृतयो देशघिरतादीनां गुणप्रत्ययानोद्यन्तीत्यत एता अविरते व्यवच्छिन्नाः ॥ २७ ॥२८॥ तइयकसायचउकं, तिरियाऊ तह य चेव तिरियगई। उज्जोयनीयगोय,विरयाविरयंमि वोच्छिन्ना ॥२९॥ । 'तृतीयकषायचतुष्क' इति, प्रत्याख्यानावरणाः क्रोधादयः, तिर्यगायुः, तिर्यग्गतिः, उद्योतं, नीच्चैर्गोत्रम्, इत्येता अष्टौ प्रकृतय उदयं प्रतीत्य विरताविरते व्यवच्छिन्नाः। विरतश्चासौ स्थूलप्राणातिपातादेरविरतश्च सूक्ष्मप्राणातिपातादेर्विरता- ॥२४॥ विरतो निवृत्तानिवृत्तो देशविरत इत्यर्थः । तृतीयकषायोदये हि चारित्रलाभो न भवति, "तइयकसायाणुदए” इत्यादिवचनात् । न च पूर्वप्रतिपन्नचारित्रस्य तदुदयसंभव इत्युत्तरेषु तदुदयाभावः । तिर्यगायुस्तिर्यग्गतिरुद्योतनाम इत्येताः
HISHERSAROKARI
For Private And Personal Use Only