________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- 'अण' इति, अनन्तानुबन्धिनश्चत्वारः, एकेन्द्रियजातिः, 'विगलिंदियजाइमेव' इति, विकलानि पञ्चभ्य ऊनानि इन्द्रियाणि येषां ते विकलेन्द्रिया द्वीन्द्रियादयस्तेषां जातयस्तिस्रः, तद्यथा-द्वीन्द्रियजातिः, त्रीन्द्रियजातिः, चतुरिन्द्रिय-| जातिः, स्थावरनाम, इत्येता नव प्रकृतयः सासादनसम्यग्दृष्टावुदयं प्रतीत्य व्यवच्छिन्नाः । अनन्तानुबन्धिनामुदये सम्यक्त्वलाभो न भवति,-"पढमिल्लयाण उदए, नियमा संजोयणा कसायार्ण । सम्मईसणलंभ, भवसिद्धीयाविन लभंति ॥१॥" इतिवचनात् । नापि सम्यडिमथ्यात्वं कोऽप्यनन्तानुबन्ध्युदये गच्छति । योऽपि पूर्वप्रतिपन्नसम्यक्त्वोऽनन्ता
नुबन्धिनामुदयं करोति सोऽपि सासादन एव भवतीत्युत्तरेष्वासामुदयाभावः। शेषास्त्वेकेन्द्रियजात्यादयो यथास्वमेके8|न्द्रियविकलेन्द्रियवेद्या एव । उत्तरगुणस्थानानि तु संज्ञिपश्चेन्द्रिया एवं प्रतिपद्यन्ते । पूर्वप्रतिपन्नोऽपि पश्चेन्द्रियेवेव गच्छति, अत उत्तरेष्वासामुदयाभावः। ततश्च सोसादन एवोदयव्यवच्छेदः॥ २६ ॥ सम्मा मिच्छत्तेगं, सम्मामिच्छमि उदयवोच्छेओ। पूर्वार्द्धम् । सम्यमिथ्यात्वस्यैकस्य सम्यमिथ्यादृष्टावुदयव्यवच्छेदः। तदुदये हि सम्यङिमादृष्टिरेव भवति नान्य इति॥
बीयकसायचड़कं, तह चेव य नरयदेवाऊ ॥२७॥ मणुयतिरियाणुपुरी, वेउवियछक्क दहयं चेव । अणएजं चेव तहा, अजसकित्ती अविरयंमि ॥२८॥
'बीयकसायचउक' इति, अप्रत्याख्यानावरणाः क्रोधमानमायालोभाःदेवायुः नरकायुः मनुजानुपूर्वी तिर्यगानुपूर्वी, 'वेडबियछक्क' इति, वैक्रियेण युक्तं पदं वैक्रियषकम्-वैक्रियशरीरं वैक्रियाङ्गोपाङ्ग नरकगतिः नरकानुपूर्वी देवमतिः देवानुपूर्वीति ।
कष्टकर
For Private And Personal Use Only