SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीकोपेतः। कर्मस्तवः ||प्रकृतीनां बन्धहेतुव्यवच्छेदस्तत्र तासां बन्धस्यान्तः, यथा मिथ्यादृष्टिव्यवच्छिन्नबन्धानां षोडशानां प्रकृतीनां मिथ्यात्वा विरतिप्रमादकपाययोगाः समुदिता बन्धहेतवः, तेषु मध्ये मिथ्यात्वं तत्रैव व्यवच्छिन्नम् । ततश्च मिथ्याष्टिगुणस्थाने तासां ॥९१॥ बन्धस्यान्तः। तत उत्तरेषु कारणवैकल्येन बन्धाभावादितरासां बन्धस्यानन्तः। तत उत्तरेष्वपि तद्वन्धकारणसाकल्येन बन्धभावात् । इत्येवमन्येष्वपि-गुणस्थानेषु प्रकृतीनां स्वस्वबन्धहेतूनां व्यवच्छेदाव्यवच्छेदाभ्यां साकल्यवैकल्यवशाद्वन्धस्यान्तोऽनन्तश्च भावनीयः ॥२४॥ इति बन्धाधिकारः समाप्तः॥ | अथेदानी कास्ताः पश्चाद्याः कर्मप्रकृतयो यासां मिथ्यादृष्यादिगुणस्थानेषूदयव्यवच्छेदः १ इत्याहMमिच्छतं आयावं, सुहम अपज्जत्तया य तह चेव। साहारणं च पंच य,मिच्छमि य उदयवोच्छेओ॥२५॥ | मिथ्यात्वं आतपनाम सूक्ष्मनाम अपर्याप्तकनाम साधारणं च, इत्यासां पश्चानां प्रकृतीनां मिथ्यादृष्टावुदयव्यवच्छेदः। मिथ्यात्वोदयस्तावन्मिथ्यादृष्टेरेव भवति, तेनोत्तरेषु तदुदयाभावः।आतपनामोदयस्तु बादरपृथिवीकायिकेष्वेव । अपर्याप्तनाम्नस्तु सर्वेष्वपर्याप्तकेषु । सूक्ष्मनाम्नः सूक्ष्मैकेन्द्रियेषु । साधारणनाम्नोऽनन्तकायिकवनस्पतिषु । न चैतेषु स्थितो जीवः सासादनादित्वं लभते, नापि पूर्वप्रतिपन्नस्तेषूत्पद्यते । सासादनस्तु यद्यपि बादरपर्याप्तकैकेन्द्रियेषूत्पद्यते तथाऽपि न तस्यातपनामोदयसंभवः, तत्रोत्पन्नमात्रस्यासमासशरीरस्यैव सासादनत्ववमनातू । समाते च शरीरे तत्रातपनामोदयो भवति, तेनैतासां मिथ्यादृष्टौ व्यवच्छेद उदयस्य ॥२५॥ अण एगिदियजाई, विगलिंदियजाइमेव थावरयं। एया नव पयडीओ, सासणसम्ममि वोच्छिन्ना ॥२६॥ ॥२३॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy