________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandir
च्छिन्नाः॥१८॥१९॥२०॥२१॥ पुरिसं चउ संजलणं, पंच य पयडीऔं पंचभागंमि । अनियट्टीअद्धाए, जहक्कम बंधवोच्छेओ ॥ २२॥
पुरुष कर्म पुरुषवेदः, 'चउ संजलणं' इति, चत्वारः संज्वलनाः क्रोधमानमायालोभाः, इत्येतासां पञ्चानां प्रकृतीनां 'पंच भागमि' इति, पञ्चसु भागेष्वनिवृत्त्वद्धायाः 'यथाक्रमं यथासंख्यमेकैकस्मिन् भागे एकैकस्याः प्रकृतबन्धव्यवच्छेदः। पुरुषवेदादीनां मायासंज्वलनान्तानामुत्तरत्र तद्वन्धाध्यवसायस्थानाभावः, व्यवच्छेदहेतुलोभसंज्वलनस्य (संज्वलनलोभस्य) तु बादरेसम्परायप्रत्ययो बन्धः, स चोत्तरत्र नास्तीत्यतो व्यवच्छेदः ॥२२॥ नाणंतरायदसगं, दंसण चत्वारि उच्च जसकित्ती । एया सोलस पयडी,सुहमकसायंमि वोच्छिन्ना॥२३॥
'नाणंतरायूदसर्ग' इति, ज्ञानावरणं पश्चविधमन्तरायं पञ्चविधं, 'दसण चत्तारि' इति, दर्शनावरणानि चत्वारि चक्षुरचक्षु-IR रवधिकेवलदर्शनावरणाख्यानि, उच्चैर्गोत्रं, यश कीर्तिः, इत्येताः षोडश प्रकृतयः सूक्ष्मकषाये बन्धं प्रतीत्य व्यवच्छिन्नाः। एतद्वन्धस्य साम्परायिकत्वादुत्तरेषु च सम्परायस्व कषायोदयलक्षणस्याभावात् ॥ २३ ॥ उवसंतखीणमोहे, जोगिंमि उसाय बंधवोच्छेओ। नायवो पयडीणं, बंधस्संतो अणंतो य ॥ २४ ॥
॥बंधो सम्मत्तो॥ . उवसंतेत्यादि । उपशान्तमोहे क्षीणमोहे सयोगिकेवलिनि च सातवेदनीयस्य बन्धव्यवच्छेदः । तदुत्तरस्मिन्नयोगिकेवलि नि तद्वन्धप्रत्ययस्य योगस्याभावात् , इत्येवं ज्ञातव्यः प्रकृतीनां बन्धस्याक्तोऽनन्तश्च । यत्र हि गुणस्थाने यासा|
CASEASNEEA4-SERS
१६
For Private And Personal Use Only