________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यदुदयान लभते तल्लाभान्तरायम् २ । सद्भुज्यत इति भोमः, आहारमाल्यविलेपनादिः । पुनः पुनर्भुज्यत इत्युपभोगः। शयनवसनवनितांभूषणादिस्तस्यान्तरायम्, भोग्यमुपभोग्य वा विद्यमानमनुपहताङ्गोऽपि यदुदयान्न शक्नोति भोक्तुमुपभोक्तुं वा तभोगान्तरायमुपभोगान्तरायं च वेदितव्यम् ३।४। वीर्य शक्तिरुत्साहः सामर्थ्य मिति चोच्यते, तस्यान्तरायं विघातकं वीर्यान्तरायम् । यदुदयादनुपहतपीनाङ्गोऽपि शक्तिविकलो भवति तद्वीर्यान्तरायम् ५। इत्युक्तं पञ्चविधमन्तरायम् ८॥ कृताच प्रकृतिवर्णना। व्याख्यातं च मूलोत्तरप्रकृतिसंख्याप्रतिपादकं गाथाबूयम् ॥९॥१०॥
इदानी कास्ता मिथ्यादृष्ट्यादिगुणस्थानेषु षोडशाद्याः कर्मप्रकृतयो बन्धादीन् प्रतीत्य व्यवच्छिन्नाः' इति प्रदर्शयन्नाहमिच्छ नपुंसगवेयं, नरयाउं तय चेव नरयदुगं । इगविगलिंदियजाई, हुंडमसंपत्तमायावं ॥११॥ थावर सुहमं च तहा, साहारणयं तहा अपजतं । एया सोलस पयडी, मिच्छमि य बंधवोच्छेओ॥१२॥ | मिथ्यात्वं नपुंसकवेदः नरकायुष्कं तह य चेव नरयदुर्ग' इति, नरकगतिनाम नरकगत्यानुपूर्वीनाम 'इगविगलिंदियजाई' इति, एकेन्द्रियजातिःद्वीन्द्रियजातिःत्रीन्द्रियजातिः चतुरिन्द्रियजातिः हुण्डं संस्थानं 'असंप्राप्तं' सेवात्तेसंहननं| | आतपनाम स्थावरनाम सूक्ष्मनाम साधारणनाम अपर्याप्तनाम, 'एया सोलस पयडी' इति, विभक्तिव्यत्ययादेतासां फोडशानां प्रकृतीनां मिथ्यादृष्टिगुणस्थाने बन्धव्यवच्छेदो भवति, एतत्प्रकृतिबन्धस्य मिथ्यात्वप्रत्ययत्वात् , तस्य चोत्तरत्राभावात् ॥ ११ ॥१२॥
१ "नरकानुपूर्वीनाम" इति वा पाठः॥
For Private And Personal Use Only