SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मस्तवः CAUSERICA सत्यप्यातपो न भवति, किं तर्हि ? तेजोजन्तुशरीराण्येव, तत्र तूष्णत्वमुष्णस्पर्शनामोदयात्, प्रकाशरूपत्वं तु लोहित- टीकोपेतः। वर्णनामोदयादवसेयमिति ३९ । यदुदयाजन्तुशरीरमनुष्णप्रकाशात्मकमुद्द्योतं प्रकरोति । यथा यतिदेवोत्तरवैक्रियचन्द्रक्ष-10 ग्रहतारारत्नौषधिमणिप्रभृतयस्तदुद्द्योतनाम ४०। यदुदयाच्छरीरेष्वङ्गप्रत्यङ्गानां प्रतिनियतस्थानवृत्तिता भवति तत्सूत्रधार|कल्पं निर्माणनाम । तदभावे हि तद्भतककल्पैरङ्गोपाङ्गनामादिभिर्निर्वृत्तानामपि शिरउरउदरादीनां स्थानवृत्तेरनियमः स्यात् ४१ । यदुदयाजीवः सदेवमनुजासुरलोकपूज्यमुत्तमोत्तमं पदं धर्मतीर्थस्य प्रवर्तयितृत्वमवामोति तत्तीर्थकरनाम | ४२ । इत्युक्तं नाम ६॥ गां वाचं त्रायत इति गोत्रम् । तत्पुनः प्राणिनामुच्चैनींचैर्भावलक्षणः कर्मविशेषोदयजनितः पर्या| यविशेषः। स ह्युत्तमाधमादिशब्दरूपां स्वार्थप्रतिपादनप्रवृत्वां प्रवृत्तिनिमित्तीभवन् वाचं रक्षति तदर्थाभिधायित्वेन पालयति । अथवा 'गुडू शब्दे' इत्यस्माद्धातोः ष्ट्रन् । गूयते संशब्दयते प्रधानाधमादिरूपतयाऽनेनेति गोत्रम् । तथाविधविपाकवेद्यं कर्मापि गोत्रम् , तच्च द्विधा-उच्चैर्गो १ नीचैर्गोत्रं २ च । तत्रोच्चैर्गोत्रमष्टधा वेद्यते, जातिकुलबलरूपतपऎश्वर्यश्रुतलाभैः । तद्विपर्ययात्त नीचैर्गोत्रम् २ निर्गुणोऽपि हि जातिवशादुत्तम इति जनैः पूज्यते । जातिहीनस्तु गुणवानपि निन्द्यते । तथा कुलादिष्वपि वाच्यम् । उक्तं द्विविधं गोत्रम् ७ ॥ जीवं चार्थसाधनं चान्तरा एति पंततीत्यन्तरायम् । जीवस्य दानादिकमर्थ सिसाधयिषोर्विघ्नीभूय विचाले पततीत्यर्थः । तत्पश्चधा-दानस्यान्तरायं दानान्तरा-IX॥ २० ॥ यमित्यादि । सति दातव्ये वस्तुनि समागते च गुणवति पात्रे दानस्य च कल्याणकं फलविशेषं विद्वानपि यदुदयादातुं नोत्सहते तद्दानान्तरायम् १ । प्रसिद्धादपि सर्वप्रदाहातुः गृहे च विद्यमानं देयमर्थजातं याश्चाकुशलो याचमानो गुणवानपि For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy