________________
Shri Mahavir Jain Aradhana Kendra
জ জ
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उच्यते, एकदिग्गामिनी तु दानपुण्यकृता वा कीर्त्तिः, यशश्च कीर्त्तिश्च यशः कीर्त्ती, ते यदुदयाद्भवतस्तद्यशः कीर्त्तिनाम ३३ । तद्विपर्ययादयशःकीर्त्तिनाम ३४ । सर्वप्राणिनां शरीराणि यदुदयान्नैकान्तगुरूणि नैकान्तलघूनि भवन्ति तदगुरुलघुनाम । एकान्तगुरुत्वे हि वोढुमशक्यानि स्युः, एकान्तलघुत्वे तु वायुनाऽपि हियमाणानि धारयितुं न पार्येरन् ३५ । स्वशरीरावयवैरेव नखादिभिः शरीरान्तर्वर्द्धमानैर्यदुदयादुपहन्यते पीड्यते तदुपघातनाम ३६ । यदुदयात् परानाहन्ति दुष्प्रधृष्यतया शरीराकृतेरभिभवति तत्पराघातनाम । यदुदयादुच्छ्छा सलब्धिरात्मनो भवति तदुच्छ्वासनाम । सर्वलब्धीनां क्षायोपशमिकत्वादौदयिकी लब्धिर्न संभवति ?, इति चेत् नैतदस्ति, वैक्रियाहारकलब्धीना मौदयिकीनामपि संभवात् । वीर्यान्तरायक्षयोपश| मोऽपि च तत्र निमित्ती भवतीति सत्यप्यौदयिकत्वे क्षायोपशमिकव्यपदेशोऽपि न विरुध्यत एव । सतीमपि चोच्छ्रास नामोदयजनितामुच्छ्रसनलब्धिमात्मा व्यापारयितुं न शक्नुयात् शक्तिविशेषरूपामुच्छ्वासपर्याप्तिमन्तरेण, यथा हि वीर्या|न्तरायक्षयोपशमजनितां सतीमपि वाग्व्यापारात्मिकां वाग्वीर्यलब्धि व्यापारयितुं न शक्नोति भाषापर्याप्तिमन्तरेण, इत्यसावपि वाग्वीर्यलब्धेः पृथगिष्यते । यथा वा ज्ञानदर्शनावरणान्तरायक्षयोपशमजनितां सतीमपि मनोव्यापारात्मिकां | पर्यालोचनवीर्यलबिंध व्यापारयितुं न शक्नोति मनःपर्याप्तिमन्तरेण इत्यसावपि मनोवीर्यलब्धेः पृथगिष्यत एव । तथोच्छ्रासनामोदयजनितायामुच्छ्रासलब्धौ सत्यामप्युच्छ्वासपर्याप्तिरेषितव्या ३८ । यदुदयाज्जन्तुशरीराण्यत्युष्णप्रकाशलक्षणमातपं प्रकुर्वन्ति तदातपनाम । तदुदयश्च रविविम्बादौ पार्थिवशरीष्वेव न शेषेषु, वह्निज्वालाप्रभादिषूष्णप्रकाशरूपत्वे १ " वाक्पर्या -" इति पाठः ॥
For Private And Personal Use Only