________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तनामादि । तत्र यस्योदयादौदारिकशरीरत्वपरिणतान् पुद्गलानात्मा सङ्घातयति पिण्डयति तदौदारिकसङ्घातनाम । वैक्रियादिचतुष्केऽप्येवमेव वाच्यम् ६ । संहननमस्थिसंचयः, तच्चौदारिकशरीर एव, नान्येषु, तेषामस्थ्याद्यभावात् । तच्चन पोढा, वज्रर्षभनाराचादि । तत्र वज्र कीलिका, ऋषभः परिवेष्टनपट्टः, नाराच उभयतो मर्कटबन्धः । यत्र द्वयोरस्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्मा परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाकारं वज्रनामकमस्थिभवति तद्वज्रर्षभनाराचं प्रथमम् । यत्र तु कीलिका नास्ति तहषभनाराचं द्वितीयम् , ऋषभंवर्ज वज्रनाराचं द्वितीयमित्येके । वज्रर्षभवर्ज नाराचं तृतीयम् । एकतो मर्केटबन्धं द्वितीयपावें कीलिकाविद्धमर्द्धनाराचं चतुर्थम् । ऋषभनाराचवर्ज कीलिकाविद्धास्थिद्वयसंचितं कीलिकाख्यं पञ्चमम् । अस्थिद्वयपर्यन्तसंस्पर्शलक्षणां सेवामृतमागतं सेवात षष्ठम् । इतीदं षड्विधमस्थिसंनिचयात्मकं संहननं यदुदयाद्भवति शरीरे तदपि तत्संज्ञकं षड्विधं संहनननामकर्म७। संस्थानं शरीराकृतिरवयवरचनात्मिका तदपि षोढा, समचतुरस्रादि । तत्र समाः शरीरलक्षणशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽम्रयो यस्य तत्समचतुरस्रम् । 'सुप्रातसुश्वसुदिवशारिकुक्षचतुरणीपदाजपदप्रोष्ठपदा' (पाणि ५-४-१२० ) इत्यकारः समासान्तः । अस्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवाः। ततश्च सर्वेऽप्यवयवाः शरीरलक्षणोक्तप्रमाणाऽव्यभि
चारिणो यस्य, न तु न्यूनाधिकप्रमाणाः, तत्तुल्यं समचतुरस्रम् । न्यग्रोधवत्परिमण्डलं न्यग्रोधपरिमण्डलम् । यथा न्यग्रोध ४ उपरि संपूर्णावयवः, अधस्तनभागे तु न तथा, तथेदमपि नाभेरुपरि विस्तरबहुलं शरीरलक्षणोक्तप्रमाणभाग, अधस्तु
हीनाधिकप्रमाणमिति । सादीति, आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते, तेनादिना शरीरलक्षणोक्तप्रमा.
kॐ4-5A4%A1%A5%ASANSCLASC
For Private And Personal Use Only