________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
कर्मस्तवः
आएवं वैक्रियाहारकतैजसकार्मणशरीरनामकर्मस्वपि स्वस्ववर्गणापुद्गलग्रहणपरिणमनकारणत्वं वाच्यम् । यावद्यस्य कर्मणाटीकोपतः।
| उदयात्कार्मणवर्गणापुद्गलान् गृहीत्वा कार्मणशरीरत्वेन परिणमयति तत्कार्मणशरीरनामकर्म, तच्च कार्मणशरीरादन्यत् ।। ॥८५॥ सत्यपि समानवर्गणापुद्गलात्मकत्वे तद्धि नाम्नः कर्मणः उत्तरप्रकृतिः। कार्मणशरीरं पुनस्तदुदयनिर्वय॑मशेषकर्मणां प्ररो
हभूमिराधारभूतम् । तथा संसार्यात्मनां गत्यन्तरसंक्रमणे साधकतमं करणमित्यन्यत् , ततस्तत्कारणभूतं कार्मणशरीरनामकर्मेति स्थितम् ३ । अङ्गानि शिरउरउदरपृष्ठवाहरुसंज्ञकान्यष्टौ । तदवयवभूतानि त्वङ्गुल्यादीन्युपाङ्गानि । शेषाणि तुम तत्प्रत्यवयवभूतान्यङ्गलिपर्वरेखादीन्यङ्गोपाङ्गानि। अङ्गानि चोपाङ्गानि चाङ्गोपाङ्गानि चेति द्वन्द्वगर्भादेकशेषादङ्गोपाङ्गानि, तानि च यस्य कर्मण उदयात्रिषु शरीरेषु भवन्ति, तत्रिविधमङ्गोपाङ्गनाम । तत्र यदुदयादौरिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभत्त्या परिणतिः तदीदारिकशरीराङ्गोपाङ्गनाम । एवं वैक्रियाहारकाङ्गोपाङ्गनाम्नोरपि ज्वाच्यम् ।।
तैजसकार्मणयोस्तु जीवप्रदेशसंस्थानानुरोधित्वान्नास्त्यङ्गोपाङ्गसंभवः ४ । पूर्वगृहीतैरौदारिकपुद्गलैः सह परस्परं च गृह्य-13 Mमाणानौदारिकपुगलानुदितेन येन कर्मणा बनात्यात्माऽन्योऽन्यसंसक्तान् करोति तदौदारिकशरीरबन्धननाम, दारुपाषा
णादीनां जतुरालाप्रभृतिश्लेषद्रव्यवत् । एवं वैक्रियादिचतुष्केऽपि वाच्यम् । यदि त्विदं शरीरपश्चकपुद्गलानामन्योऽन्यसंबन्धकारि बन्धनपश्चकं न स्यात्ततस्तेषां शरीरपरिणतौ सत्यामप्यसंबद्धत्वात्पवनाहतकुण्डस्थितास्तीमितसक्तनामिवैकत्र : स्थैर्य न स्यात् ५। तच्च बन्धनमसंहतानां न संभवति, अतस्तत्पिण्डनकारणं पञ्चविधं सङ्घातनाम । तथैवौदारिकसङ्कन
१"व्याणां तुल्यम्" इति वा पाठः ।।
54-COCAT
AKAR
For Private And Personal Use Only