________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
टीकापतः।
कर्मस्तव ॥८४॥
ASALAAMKARAN
स फुस्फुमानिसमानः खीवेदः १। यदुदयेन पुंसः स्त्रियामभिलापः श्लेष्मोदयादम्लाभिलाषवत्, स तृणाग्निज्वालासमानः पुंवेदः २।यदुदयेन पण्डकस्य स्त्रीपुंसयोरुभयोरभिलाषः पित्तश्लेष्मणोरुदयेन मर्जि(जि)काभिलाषवत्, स महानगरदाहाग्निसमानो नपुंसकवेदः ३ । यदुदयेन सनिमित्तमनिमित्तं वा हसति तत्कर्म हास्यवेदनीयम् ४ । यदयेन रमणीयेषु वस्तुषु रमते प्रमोदते तद्रतिवेदनीयमिति ५। ततो विपरीतमरतिवेदनीयम् ६। यदुदयेन मिंयविप्रयोगादिपीडितचित्तः शोचनाऽऽक्रन्दपरिदेवनादि करोति तच्छोकवेदनीयम् ७ । यदुदयेन सनिमित्तमनित्तत्तं वा बिभेति सद्भयवेदनीयम् । यदुदयेन शकृदादिबीभत्सपदार्थेभ्यो जुगुप्सते उद्विजते तजुगुप्सावेदनीयम् ९। इत्युक्ता नोकपायाः, तदभिधामाचारित्रमोहमीयं च २ मोहनीयं चाष्टाविंशतिविधमिति ४॥ एति याति चेत्यायुः, नैरुक्कौशब्दव्युत्पत्तिः । यद्यपि च सर्व कर्म स्वहेतुभिर्नियमादपूर्वमेत्यात्मानं, पूर्वबद्धं च यात्यषैत्यात्मनस्तथाप्ययमस्त्यायुषो विशेषः । प्राग्भवबद्धमात्मनो यदा यात्यपैति तदा तदपगमानम्तरं वर्तमानभवघद्धमुदयमेति पति याति चेत्यनया व्युत्पत्त्या, तदेवेशं गमनागमनं विवक्षितमित्वसाधारणमायुषो नाम, तञ्चतुर्था । नारकरख सतो वेद्यमायुष्कं नारकायुष्कम् १ । तिरश्वां - तिर्यगायुष्कम् २। मनुष्याणां मनुष्यायुकम् ३ । देबोनां देवायुष्कम् ४ इत्युक्तं चतुर्विधमायुष्कम् ५॥ तथा नामयति परिणमयत्यात्मानं
१"फुम्फकामि" इति या पाठः। १ "यदुदयेन संचिचाचितेषु बाह्यद्रव्येषु जीवस्य रतिरुत्पयते तद्रतिवेदनीयं कर्म ५। यदुदयेन | सेष्वेवारतिरुत्पद्यते तदरतिवेदनीय कर्म ३ । यदुदयेन शोकरहितस्यापि जीवस्याक्रन्दनादिशोको जायते तच्छोकवेदनीयं कर्म ७ । यदुदयेन मववर्जिसंस्थापि जीवस्येह लोकादिसप्तप्रकारं भयमुत्पद्यते तद्भर्यवेवमीयं कर्म ८" इति वा पाठः ।।
DI|१६॥
For Private And Personal Use Only