SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir शब्दः प्रागुक्तार्थ एव । तत्रानन्तं संसारमनुबन्नन्ति अनुसंदधति तच्छीलाश्चेत्यनन्तानुबन्धिनः । यद्यपि चैतेषां शेषकषायरहितानामुदयो नास्ति, तथाऽप्यवश्यमनन्तसंसारमौलकारणमिथ्यात्वोदयांक्षेपित्वादेतषामेवैष व्यपदेशः। शेषकषाया हि नावश्य मिथ्यात्वोदयमाक्षिपन्ति, अतस्तेषामुदययोगपचे सत्यपि नायं व्यपदेशः, इत्यसाधारणमेतेषामेवैतन्नामधेयम् । ते च चत्वारः । क्रोधोऽक्षान्तिपरिणतिलक्षणः। मानो गर्यो जात्यायुद्भवममार्दवम् । माया वश्चनप्रतिकुश्चनाद्यामिका परिणतिः। लोभोऽसंतोपात्मको गायपरिणामः । तद्विपाकवेद्याः कर्मप्रकृतयोऽपि तन्नामधेयाः। इत्येते क्रोधादयो यथासमय पर्वतरेखाशैलस्तम्भवंशीमूलकृमिरागसमाना यावज्जीवानुबन्धिनो जीवपरिणामविशेषा अनन्तानुबन्धिन इत्यवसेया इति। त एव च क्रोधादयो यथाक्रमं पृथिवीरेखाऽस्थिमेषशृङ्गकर्दमरागसमानाः संवत्सरानुबन्धिनोऽप्रत्याख्यानाचरणा, नमोऽल्पार्थत्वादल्पं प्रत्याख्यानं अप्रत्याख्यानं देशविरत्याख्यं तदावृण्वन्ति ये ते तथोक्ताः ४ । त एव क्रमेण रेणुरेखाकाष्ठगोमूत्रिकाखञ्जनरागसमानाश्चतुर्मासानुबन्धिनः प्रत्याख्यानावरणाः, प्रत्याख्यानं सर्वविरत्याख्यमावृण्वन्तीतिकृत्वा ४॥ त एव क्रमशो जलरेखातिनिसलताअवलेखहरिद्रारागसमानाः पक्षानुबन्धिनः संज्वलनाः, संज्वलयन्स्युदयेन चारित्रिणमपीति संज्वलनाः ४ । इत्युक्ताः पोडश कषायाः । नव नोकषाया इति, नोशब्दः साहचर्यार्थः । कषायैः सहचरा नोकपायाः। केवलानां नैषां प्रधान्यं, किन्तु कषायैरनन्तानुबन्ध्यादिभिः सहोदयं यान्ति तद्विपाकसदृशमेव विपाकमादर्शयन्तीति बुधग्रहवदन्यसंसर्गमनुवर्तन्ते । तत्र वेदत्रये-यदुदयेन स्त्रियाः पुंस्यभिलापः पित्तोदयेन मधुराभिलाषवत्, १ "यापेक्षित्वा" इत्यपि ॥ KASARSt: For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy