SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मस्तवः टीकोपेतः। ॥८ ॥ AA% C द्रव्यमर्यादया अवधिरेव वा करणनिरपेक्षबोधरूपो दर्शनं सामान्यार्थग्रहणमवधिदर्शनं तस्यावरणम् ८ । तथा केवलमुक्त- स्वरूपं तच्च तद्दर्शनं च तस्यावरणं केवलदर्शनावरणम् ९ । इत्युक्तं नवविधं दर्शनावरणम् २ ॥आरोग्यविषयोपभोगादिजनितमाहादरूपं सुखं सातं, तद्रूपेण विपाकेन वेद्यत इति सातवेदनीयम् १ । तद्विपरीतं दुःखमसातं, तद्रूपेणं विपाकेन वेद्यत इत्यसातवेदनीयम् २। इत्युक्तं द्विविधं वेदनीयम् ३ ॥ तत्त्वार्थश्रद्धानं दर्शनं, तम्मोहयति विपर्यासं गमयतीति दर्शनमोहनीयम् । तत्रिविधं, मिथ्यात्वादि । तत्र मिथ्यात्वं त्रिविधम्-सांशयिकम् १ आभिग्रहिकम् २ अनाभिग्रहिकं ३ चेति । तत्र सांशयिकं यदिदमुक्तमर्हता तत्त्वं जीवादि, तन्न जाने-तथा स्यात् उतान्यथा ? इत्येवरूपम् । उक्तं च-“एकस्मिन्नपि तत्त्वे, संदिग्धे प्रत्ययोऽर्हति हि नष्टः । मिथ्या च दर्शनं तत्, स चादिहेतुर्भवगतीनाम् ॥१॥” इति १। आभिग्रहिकं येन बोटिकादिकुदर्शनानामन्यतमदभिगृह्णाति २ । अनाभिग्रहिकं अज्ञानां गोपादीनामीपन्माध्यस्थ्याद्वाऽनभिगृहीतदर्शनविशेषा सर्वदर्शनानि शोभनानीत्येवंरूपा या प्रतिपत्तिः३ । इत्येतेन त्रिविधेन प्रकारेण विपच्यते यत्कर्म तदपि मिथ्यात्वम् १। सम्यग्मिथ्यात्वमर्द्धविपर्यस्तत्वं दर्शनस्य नैकान्तशुद्धमशुद्धमेव वा तेत्त्वश्र धानत्वं तादृशविपाकवेद्यं कर्म सम्यग्मिथ्यात्वम् २ । तथा सम्यक्त्वमविपर्यस्तत्वं तत्त्वदर्शनस्य यथा यदर्हन् प्राह तथैव तत्, इत्येवंरूपं, तत्त्वश्रद्दधानत्वम्, एतत्परिणामपरिणतेनात्मना यद्वेद्यते तद्दर्शनमोहनीय कर्म,तदपि सम्यक्त्वमिति ३।१। तथा चारित्रं सावधयोगविरतिलक्षणो जीवपरिणामः तन्मोहयतीति चारित्रमोहनीयम् । तत्र षोडश कषायाः । कषाय १ "रूपिमर्यादया" इत्यपि । २ "तत्त्वार्थश्रद्धानत्वं तादृशविपाकावे" इत्यपि पाठः । ३ "श्रद्धानत्व-" इति वा पाठः ।। **EASES AXAISAISA 5ECT For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy