SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir SARSWARA तस्यां ह्रत्यर्थमस्फुटतरीभूतचैतन्यवाहुःखेमबहुमिोलनादिभिः प्रबोधी भवति, अतः सुखप्रबोधनिद्रापेक्षयाऽस्या अतिशायिनीत्वम्, तद्विपाकवेद्या कर्मप्रकृतिः कार्यद्वारेण निद्रानिद्रेत्युच्यते २ । उपविष्ट ऊर्ध्वस्थितो वा प्रचलत्यस्यां स्वप्ता स्वापावस्थायामिति प्रचला, सा घुपविष्टस्योर्वस्थितस्य वा घूर्णमानस्य स्वप्नुर्भवति, तथाविधविपाकवेद्या कर्मप्रकृतिः ६ प्रचलेति तथैव ३ । प्रचलाऽतिशायिनी प्रचला प्रचलाप्रचला, साहिचकमणादि कुर्वतः स्वप्नुर्भवति, अतः स्थानस्थितस्व सभवां प्रचलामपेक्ष्यातिशायिनी, तद्विपाका कर्मप्रकृतिरपि प्रचलाप्रचला ४ । स्त्याना बहुस्वेन सहातमापना गृद्धिरभिकाङ्का जामदवस्थाऽध्यवसितार्थसाधनविषया यस्यां स्वापावस्थायां सा स्त्यानगृद्धिः। तस्यां हि सत्यां जाग्रदवस्थाध्यवसितमर्थमुत्थाय साधयति । स्त्याना वा पिण्डीभूता ऋद्धिरात्मशक्तिरूपा अस्यामिति स्त्यानर्चिरित्यप्युच्यते, तद्भावे हि स्वः प्रथमसंहननस्य केशवाईबलसदृशी शक्तिर्भवति । प्रसिद्धं चैतदागमे-भिक्षार्थमन्यग्रामं गतस्य क्षुलकस्थागच्छतो न्यग्रोधोखायां शिरः स्खलितम् । ततस्तेन रुषितेन रात्रावेतन्निद्रोदये सावटशाखा भक्त्वा प्रतिश्रयबारे प्रक्षिसेत्यादि। अथवा स्त्याना जडीभूता चैतन्यर्द्धिरस्यामिति स्त्यानार्द्धरिति, तादृशविपाकवेद्या कर्मप्रकृतिरपि स्त्यानाः स्त्यानगृद्धिरिति वा ५ । तदेसन्निद्रापश्चकं दर्शनावरणक्षयोपशमलब्धात्मलाभानां दर्शनलब्धीनामावारकमुक्तम् । अधुना यदर्शनलब्धीमा मूलत एंव लाभमावृणोति तदिदं दर्शनावरणचतुष्कमुच्यते-चक्षुषा सामान्यग्राही बोधश्चक्षुर्दर्शनं तस्यावरणं चक्षुदर्शनावरणम् ६ । अचक्षुषा चक्षुर्वर्जेन्द्रियचतुष्टयेन मनसा वा यद्दर्शनं तदचक्षुर्दर्शनं तस्यावरणम् ७ । अवधिना रूपि १ "यस्या-" इत्यपि । २ "शाखया" इति वा । ३ "रुषितेन गत्वा स्त्यानचिनिद्रोदये सा। "मावरणकमु" इति कचित् ॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy