SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मस्तवः टीकोपेतः। ॥८२॥ RASISPRAPRAKASHISH चमनःपर्यायज्ञानम् । तच्च द्विविधम्-ऋजुमति विपुलमति चेति । ऋची साक्षात्कृतेष्वनुमितेषु वाऽर्थेष्वल्पतरविशेषविषय- तया मुग्धा मतिर्विषयपरिच्छित्तिर्यस्य तहजुमति। तदितरा विपुला मतिर्यस्य तद्विपुलमति । तत्रर्जुमतेरीतृतीयाकुलहीनो मनुष्यलोकः क्षेत्रतो विषयः, स एव विपुलमतेः संपूर्णो निर्मलतरः । कालतस्त्वेतावति क्षेत्रे भूतभाविनीः पल्योपमासमवेयभागयोरतीतानागतानि, संज्ञिमनोरूपाणि मूर्तद्रव्याणि,तान्येव च द्रव्यतोऽपि । मावतस्तु तत्पर्यावाश्चिन्तनानुगुणाः परिणतिरूपा ऋजुमतेविषय इति । चिन्तनीयं तु मूर्तममूर्त्तवा त्रिकालगोचरमपि बाह्यमर्थमनुमानादवैति, नसाक्षात्। यत एतत्परिणताम्येतानिमनोद्रव्याणीत्वेतदन्यथानुपपत्तेरमुकोऽनेनार्थश्चिन्तित इति लेखाक्षरदर्शनात्तदुक्कार्थमिवाप्रत्यक्ष मनोद्रव्यदर्शनाञ्चिन्त्यमर्थमनुमिमीते । स चैष बाह्याभ्यन्तररूपो द्विविधोऽपि विषयः स्फुटतरबहुतरविशेषाध्यासितत्वेन विपुलमतेविमलतरोऽवसेयः । तदेवमेतयोईयोरपि मनःपर्यायमेदयोरावरणस्वभावं कर्मापि द्विविधमेव, तदेकग्रहणेन गृह्यते मनःपर्यावज्ञानावरणमिति ४। केवलज्ञान प्रायुक्तस्वरूपं तस्यावरणं केवलज्ञानावरणम् ५।युक्तं पश्चविध ज्ञानावरणम् १॥ सामान्बविशेषत्माके वस्तुनि सामान्यग्रहणात्मको वोधो दर्शनं तस्यावरणस्वभावं कर्म दर्शनावरणम् । तनवविधम् । तत्र निद्रापञ्चकं तावत् 'द्रा' कुत्सायां गतौ । नियतं द्रांति कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यमनयेति निद्रा सुखप्रबोधा स्वापावस्था, नखच्छोटिकामात्रेणापि यत्र प्रबोधो भवति तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रेति कार्येण व्यपदिश्यते १॥ तथा निद्रातिशाचिनी निद्रा निद्रानिद्रा, शाकपार्थिवादित्वान्मध्यपदलोपी समासः । सा पुनर्दुःखप्रबोधां स्वापावस्था १ "मविस्फुटस्वं" इति पाठः ।। |॥१४॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy