________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकस्य सर्वरूपिमर्यादया ज्ञानत्वासंभवात्, द्वितीयस्य तु रूप्यरूपिविषयत्वात् । यत्त्ववधिज्ञानं तस्य सर्वरूपिमर्यादयापि विषयः संभवतीति मनःपर्यायकेवलयोस्ततो व्यतिरेकः। तद्भवप्रत्ययं नारकदेवानांगुणप्रत्ययं मनुष्यतिरश्चाम् । एतच्च षोढा, अनुगाम्यादि । तत्र अनुगामि यद्देशान्तरगतमपि ज्ञानिनमनुगच्छति लोचनवत् १ । यत्तु तद्देशस्थस्यैव भवति स्थानस्थदीपवत् , तद्देशनिबन्धनक्षयोपशमजन्यत्वात् , देशान्तरगतस्य त्वति तदननुगामीति २। अवस्थितं यन्न प्रतिपतति, आदित्यमण्डलवत् ३ । अनवस्थितं यत्प्रतिपतति, लवणसमुद्रवेलावत् ४। हीयमानकं यजघन्येनाङ्गलासयभागविषयमत्कर्षेण सर्वलोकविषयमुत्पद्य पुनः संक्लेशवशात्क्रमेण हानि विषयसंकोचात्मिकां याति, यावदलासचेयभागस्ततोऽपि प्रतिपतति, येन त्वलोकस्य प्रदेशोऽपि इष्टस्तस्य न हीयते ५ । वर्धमानकं यदलासङ्ख्येयभागादिविषयमुत्पद्य पुनर्वृद्धिं किमयविस्तरणात्मिकां याति, यावदलोके लोकप्रमाणान्यसङ्ग्येयानि खण्डानि ६ ।इतिषविधमवधिज्ञानम्। तस्य च जघन्यो स्कृष्टमध्यमक्षेत्रविषयासङ्ख्येयत्ववशादसङ्ग्येया भेदाः,तेषामावरणस्वभावानि एतावन्त्येव कर्माणि, तानि चैकग्रहणेन गृह्यन्तेऽवधिज्ञानावरणमिति ३ तथा संज्ञिभिजींवैः काययोगेन गृहीतानि मनःप्रायोग्यवर्गणापुद्गलद्रव्याणि चिन्तनीयवस्तुचिन्तनव्यापृतेन मनोयोगेन मनस्त्वेन परिणमय्यालम्ब्यमानानि मनांसीत्युच्यन्ते, तेषां मनसां पर्यायाश्चिन्तनानुगुणाः परिणामाः तेषु ज्ञानं मनःपर्यायज्ञानम् । अथवाऽऽत्मभिर्वस्तुचिन्तने व्यापारितानि मनांसि पर्येति परिगच्छत्यवतीतिमनःपर्याय, 'कर्मण्यण' (पाणि०३-२-१)तस्य कथंचित्कर्तुरनन्यत्वात्कर्तृत्वम् । कर्ता वाऽऽत्मा यथोकानि मनांसि पर्येति अनेनेति मनःपर्यायम्। 'अकर्तरि च'इत्यादिना घजू। तत्पुनस्तदावरणक्षयोपशमजो लब्धिविशेषः,तदुपयोगो वा विषयग्रहणात्मक इति। तच्च तद् ज्ञानं
AAAAAAAACARA
For Private And Personal Use Only