________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मस्तवः
स्वभावं कर्म तदाभिनिबोधिकज्ञानावरणमेकग्रहणेन गृह्यते १ । तथा श्रवणं श्रुतं अभिलापप्लावितार्थग्रहणप्रत्ययोपल-18 टीकोपेतः। ब्धिविशेषः, ततस्तेन तदेव वा ज्ञानं श्रुतज्ञानम् । तच्च संक्षेपतश्चतुर्दश विधमक्षरश्रुतादि । तत्राक्षरश्रुतं त्रिविधम्-संज्ञा१ व्यञ्जन २ लब्धि ३ भेदात् । तत्र संज्ञाक्षरं लेख्यलिपिरूपम् , यथा-ठकारो घटाकृतिः, घटीरूपो धकार इत्यादि । व्यञ्जनाक्षरं भाषाशब्दस्तदेतद्वितयमज्ञानात्मकमपि श्रुतकारणत्वादुपचारेण श्रुतम् । लब्ध्यक्षरं तु शब्दश्रवणरूपदर्शनादेरर्थप्रत्यायनगर्भाक्षरोपलब्धिः १। अनक्षरश्रुतं श्वेडितशिर कम्पादिनिमित्तं मामाह्वयति वारयति वेत्यादिरूपमभिप्राया-16 दिपरिज्ञानम् २ । समनस्कस्य मनःसहायैरिन्द्रियैर्जनितमुक्कलक्षणं श्रुतं संज्ञिश्रुतम् ३ । तदेव मनोरहितेन्द्रियजमसंज्ञि|श्रुतममनस्कस्य ४ । सम्यग्दृष्टेरर्हत्प्रणीतमितरद्वा श्रुतं यथास्वरूपावगमात् सम्यग् श्रुतम् ५ । तदेव मिथ्यादृष्टेर्मिथ्याश्रुतम् , अन्यथाऽवगमात् ६ । सादिश्रुतं ज्ञानात्मकं सम्यग्दृष्टेरज्ञानात्मकं वा सम्यक्त्वच्युतस्य ७ । मिथ्यादृष्टेरलब्धपूसम्यक्त्वस्य तु तदेवानादिश्रुतम् ८। सपर्यवसितं भव्यानां केवलोत्पत्तौ ध्रुवं पर्यवसानात् ९ । अपर्यवसितमभव्यानां केवलोत्पादानहत्वात् १०॥ भिन्ने यदर्थजाते सदृशाक्षरालापकं तद्गमिकम् ११ । असदृशं त्वगमिकम् १२। अङ्गप्रविष्टमा. चारादीन्यङ्गानि १३ । शेष प्रकीर्णकाद्यनङ्गप्रविष्टम् १४ । इति चतुर्दशधा श्रुतज्ञानं, तस्यावरणस्वभावं कर्म श्रुतज्ञानावरणम् २ तथाऽवधानमवधिरिन्द्रियाद्यनपेक्षमात्मनः साक्षादर्थग्रहणम् , अवधिरेव ज्ञानमवधिज्ञानम् । अथवाऽवधिर्मर्यादा तेनावधिना रूपिद्रव्यमर्यादात्मकेन ज्ञानमवधिज्ञानम् । इत्येक एव समासशब्दो विग्रहदयनिष्पन्नः स्वमर्थमन्यव्यतिरिक्तमाह, मतिश्रुते तावदिन्द्रियमनो जनिते, तयोः प्रथमेन विग्रहेण व्यतिरेका, द्वितीयेन तु मनःपर्यायकेवलयो
AAAAAACK
For Private And Personal Use Only