________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतादपनीयते, शेषेण द्वाविशेन शतेनाधिकारः । बन्धे तु सम्यक्त्वसम्यग्मिथ्यात्वयोः समेणैव निष्पाद्यत्वाद्वन्धो न संभवतीति तयोर्वाविंशशतादपनीतयो शेषेण विंशेन शतेनाधिकारः। इति प्रकृतिसमुत्कीर्तना कृता । अधुना प्रकृतिवर्णना क्रियते । तंत्र ज्ञानावरणं तावत्-सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोधो ज्ञानं तस्यावरण ज्ञानावरणम् । तस्य प्रथमों भेद आमिनिंबोधिकज्ञानावरणम् । अभिमुखो योग्यदेशावस्थितार्थापेक्षी नियतः स्वस्वविषयापेक्षी बोधोऽभिनिबोधः स एवामिनिबोधिकं, तच्च तद् ज्ञानं चेति आभिनिबोधिकज्ञानम् । तच्चतुर्विधम् अवग्रहः १ ईहा २ अपायः ३ धारणा ४ चैति । अवग्रहो द्विविधः-व्यञ्जनावग्रहः १ अर्थावग्रहश्च २।तत्र व्यञ्जनावग्रहश्चक्षुर्मनोवर्जानामिन्द्रियाणां स्वस्वविषयद्रव्यैः सह संबन्धः, तेनासौ चतुर्विध एव । अर्थावग्रहस्तु किमपीदमित्येतावन्मत्रो मन:पष्टैः पञ्चभिरिन्द्रियैर्वस्त्ववबोधः, ततश्चैवमसौ पोढा । ईहादयोऽपि मनःषष्ठेन्द्रियपश्चकसंभवत्वात्पोद्वैव । अपि किं स्वयं भवेत् पुरुष एव उत स्थाणुः १ इत्यादिवस्तुधर्मान्वेषणात्मक ज्ञानचेष्टनमीहा । पुरुष एवायमिति वस्त्वध्यवसायात्मको निश्चयोऽपायः। निश्चितस्याविच्युतिस्मृतिवासनात्मकं धरणं धारणा । तदेतदष्टाविंशतिविधं श्रुतनिश्रितमाभिनिबोधिकज्ञानम् , श्रुतेन संस्क्रियमाणत्वात् । अश्रुतनिश्रितेनौत्पत्तिक्यादिबुद्धिचतुष्टयेन सह द्वात्रिंशद्विधम् । अथवा बहुबहुविधक्षिप्रानिश्रितासंदिग्धश्ववाणां सेतराणामर्थानां ग्रहणेन भिद्यमानत्वावादशभिरष्टाविंशतिर्गणिता त्रीणि शतानि षट्त्रिंशानि, तानि बुद्धिचतुष्टयसहितानि चत्वारिंशानि त्रीणि शतानि भेदानामाभिनिबोधिकज्ञानस्येति तस्यैतावद्भेदमेव यदावरण
१ "वस्तुन्यध्यवसायात्मको" इत्यपि पाठः ॥
RAKAR
For Private And Personal Use Only