________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandir
SEASE
सुरनारकतिर्यगायूंषि निजकभवे सत्तामधिकृत्य व्यवच्छिन्नानीत्यधिकाराल्लभ्यते । केषाम् ?, इत्याह-सर्वजीवानां क्षपकजिनत्वं प्राप्स्यतामेव, न त्वन्येषामित्याद्गम्यते । तथाहि-ये जीवाः सुरनारकतिर्यक्षु चरमं तद्भवमनुभूय मनुष्यतयोत्पन्नास्तेषां सुरनारकतिर्यगायूंषि स्वस्वभवे व्यवच्छिन्नसत्ताकानि जातानि, पुनस्तदनवाः, नान्येषां पुनस्तत्प्राप्तेरिति । अष्टचत्वारिंशं च शतं कर्मप्रकृतीनां सत्तायामधिक्रियते, तच्च दर्शयिष्यामः । तत्र मिथ्यादृष्टरष्टचत्वारिंशस्यापि शतस्य सत्ता। यदा प्राग्बद्धनारकायुष्कः क्षायोपशमिकं सम्यक्त्वमवाप्य तीर्थकरनाम्नो बन्धमारभते, तदाऽसौ रकेषूत्पद्यमानः सम्यक्त्वमवश्यं वमतीति मिथ्यादृष्टस्तीर्थकरनानोऽपि सत्ता संभवति । सासादनसम्यग्मिथ्यादृष्ट्योस्तस्मिन्नेव तीर्थकरनामरहिते सप्तचत्वारिंशस्य शतस्य सत्ता । तीर्थकरनामसत्कर्मणो जीवस्य तद्भावानवाः । तद्वन्धारम्भस्य च शुद्धसम्य|क्त्वप्रत्ययत्वादित्युक्तं प्राक् । अविरतदेशविरतप्रमत्तसंयताप्रमत्तसंयतानामक्षपितदर्शनसप्तकानामष्टचत्वारिंशस्य शतस्य सत्ता संभवति । तदितरेषां त्वेकचत्वारिंशस्य शतस्येति । इयं चैतेषु गुणस्थानेषु सामान्यजीवानां संभवमधिकृत्य सत्ता वर्णिता, न त्वधिकृतस्तवस्तुत्यस्य जिनस्यैषा सत्ता संभवति, अस्याः सुरनारकतिर्यगायुष्कसंभवापेक्षणीयत्वात्, जिनस्य च तदसंभवात्तस्यापि वा प्राग्भवापेक्षया संभवो भाव्यः। इदानीं जिनस्य क्षपकश्रेण्यामपूर्वकरणादिषु प्रकृतिसत्ताऽनुवयते । उपशमश्रेणीसत्तायास्त्विह नाधिकारः । तत्रापूर्वकरणगुणस्थाने स्वस्वभवव्यवच्छिन्नानि देवनारकतिर्यगायूंषि त्रीण्यविरताद्यप्रमत्तसंयतावसानगुणस्थानव्यवच्छिन्नं च दर्शनसप्तकमष्टाचत्वारिंशंशतादपनीयते, शेषस्याष्टात्रिंशस्य प्र
१ "प्रमत्ताप्रमत्संयतानामक्ष" इति पाठः । २ “सत्तया त्विह" इत्यपि पाठः ।।
BRASIA ARRANSERS
ASTRA
For Private And Personal Use Only