________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मस्तवः
टीकोपेतः।
॥
७॥
कमेकाशीतरपनीयते, शेषायास्त्रिसप्ततेरुदीरणा । अपूर्वकरणे षण्णां व्यवच्छेदः। अप्रमत्तव्यवच्छिन्ने चतुष्के त्रिसप्त- तेरपनीते शेषाया एकोनसप्ततेरुदीरणा । अनिवृत्तिबादरसम्पराये षण्णां व्यवच्छेदः। अपूर्वकरणव्यवच्छिन्नं षटुमेकोन|सप्ततेरपनीयते, शेषायास्त्रिषष्टेरुदीरणा । सूक्ष्मसम्पराये त्वेकस्याः प्रकृतेरुदीरणाव्यवच्छेदः । अनिवृत्तिवादरसम्परायव्यवच्छिन्ने पट्टे त्रिषष्टेरपनीते शेषायाः सप्तपश्चाशत उदीरणा । उपशान्तमोहे द्वयोरुदीरणाव्यवच्छेदः । सूक्ष्मरागन्यव|च्छिनायामेकस्यां सप्तपश्चाशतः शोधितायां शेषायाः षट्पञ्चाशत उदीरणा। क्षीणमोहे षोडशानामुदीरणाव्यवच्छेदः। उपशान्तमोहव्यवच्छिन्ने द्वये षट्पञ्चाशतः शोधिते शेषायाश्चतुष्पञ्चाशत उदीरणा । सयोगिकेवलिन्येकोनचत्वारिंशत उदीरणाव्यवच्छेदः । क्षीणकषायव्यवच्छिन्ने षोडशके चतुष्पञ्चाशतः शोधिते शेषायामष्टात्रिंशति तीर्थकरनान्नि प्रक्षिप्ते सत्येकोनचत्वारिंशत उदीरणा । अयोगिकेवली त्वनुदीरक एव ॥५॥
इति प्रकृत्युदीरणाव्यवच्छेदोद्देशः। प्रकृतिसत्ताव्यवच्छेदोदेशमाहअणमिच्छमीससम्म, अविरयसम्माइअप्पमत्ता । सुरनरयतिरियआउं, निययभवे सजीवाणं ॥६॥
अनन्तानुबन्धिनश्चत्वारः क्रोधमानमायालोभाः, मिथ्यात्वं, "मिश्र सम्यग्मिथ्यात्वमित्यर्थः, सम्यक्त्वं इत्येताः सप्त कर्मप्रकृतयोऽविरतसम्यग्दृष्ट्याद्यप्रमत्तान्ताः । किमुक्तं भवति ?, एताः प्रकृतयोऽविरतदेशविरतप्रमत्ताप्रमत्तसंयतगुणस्थानानामन्यतमस्मिन् व्यवच्छिन्नसत्ताका भवन्ति । एता हि सप्त प्रकृतीरेतेषामन्यतमो विशुद्धिवशात् क्षपयतीति । तथा
१ "सूक्ष्मसम्परायव्यव" इति वा पाठः । २ "मन्यतरस्मिन्" इत्यपि पाठः ॥
॥
९
॥
For Private And Personal Use Only