________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुष्के षट्सप्ततेरपनीते शेषाया द्वासप्ततेरुदयः । अनिवृत्तिबादरसम्परायगुणस्थाने षण्णां प्रकृतीनामुदयव्यवच्छेदः । अपूर्वकरणव्यवच्छिन्ने पके द्वासप्ततेरपनीते शेषायाः षट्षष्टेरुदयः । सूक्ष्मसम्परायगुणस्थाने त्वेकस्याः प्रकृतेरुदयव्यवच्छेदः । अनिवृत्तिबादरसम्परायव्यवच्छिन्ने पङ्के षट्षष्टेरपनीते शेषायाः षष्टेरुदयः । उपशान्तमोहगुणस्थाने द्वयोः प्रकृत्योरुदयवच्छेदः । सूक्ष्मसम्परायव्यवच्छिन्नायामेकस्यां प्रकृतौ षष्टेरपनीतायामेकोनषष्टेरुदयः । क्षीणमोहगुणस्थाने पोडशानां प्रकृतीनामुदयव्यवच्छेदः । द्वयोर्द्विचरमसमये चतुर्दशानां तु चरमसमये उपशान्तमोहव्यवच्छिन्नं द्वयमेकोनषष्टेरपनीयते, शेषायाः सप्तपञ्चाशत उदयः । सयोगिकेवलिगुणस्थाने त्रिंशतः प्रकृतीनामुदयव्यवच्छेदः । क्षीणमोहव्यवच्छिन्ने षोडशके सप्तपञ्चाशतोऽपनीते शेषायामेकचत्वारिंशति तीर्थकरनाम्नि प्रक्षिप्ते द्वाचत्वारिंशत उदयः । भवस्थायोगिकेवलिगुणस्थाने द्वादशानामुदयव्यवच्छेदः । सयोगिकेवलिव्यवच्छिन्नायां त्रिंशति द्वाचत्वारिंशतः शोधितायां द्वादशानामुदयः । सिद्धकेवली त्ववेदकः ॥ ४ ॥
इति प्रकृत्युदय व्यवच्छेदोद्देशः । इदानीमुदीरणाव्यवच्छेदोदेशमाह
पण नत्र इग सत्तरसं, अट्ठ ट्ठ य चउर छक्क छ चैव । इग दुग सोलगुयालं, उदीरणा होइ जोगंता ॥५॥ होदयाधिकारमनुसृत्य भावनीयमुदीरणाभिलापेन । नवरं विशेष उच्यते - प्रमत्तसंयतगुणस्थाने प्रकृत्यष्टकस्योदीरणाव्यवच्छेदः । उदीरणा त्वेकाशीतेरुदयवत् । अप्रमत्ते चतसृणां प्रकृतीनामुदीरणाव्यवच्छेदः । प्रमत्तव्यवच्छिन्नम१ " सूक्ष्मरागव्यव" इत्यपि पाठः ॥
For Private And Personal Use Only