________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ASSESSORIA
कर्मस्तवः 18 सासादनभावस्थस्य नरकेषूत्पादो न संभवतीति तदपान्तरालगतिभावी नरकानुपूर्या नास्त्युदय इति तत्सहिते मिथ्याहटीकोपेतः।
दाष्टिव्यवच्छिन्ने पञ्चके सप्तदशोत्तरशतादपनीते शेषस्यैकादशोत्तरशतस्योदयः । सम्यग्मिथ्यादृष्टिगुणस्थाने त्वेकस्याः कर्म-5
प्रकृतेरुदयव्यवच्छेदः । सम्यग्मिथ्यादृष्टेर्विग्रहगतिर्न संभवति, 'न सम्ममिच्छो कुणइ कालं' इति वचनात् । अतो विनहगतिभावी नास्त्यानुपूर्वीचतुष्कस्योक्यः। तत्र नरकानुपूर्वी पूर्वा(वम)पनीतैव, शेषत्रयसहितं सासादनव्यवच्छिन्नं नवक दादश भवन्ति । तेष्वेकादशोत्तरशतादपनीतेषु शेषा नवनवतिः, तस्यां सम्यग्मिथ्यात्वे प्रक्षिप्ते शतस्योदखः । अविरतसम्यग्दृष्टिगुणस्थाने सप्तदशानां प्रकृतीनामुदयव्यवच्छेदः । सम्यग्मिथ्यादृष्टिव्यवच्छिन्नामेकां प्रकृति तादपनीय शेषायां नवनवतौ सम्यक्त्वमानुपूर्वीचतुष्कं च प्रक्षिप्यते ततश्चतुरुत्तरशतस्योदयः । देशविरतगुणस्थाने प्रकृत्यष्टकस्योदयव्यवंच्छेदः । अविरतसम्यग्दृष्टिव्यवच्छिन्ने सप्तदशके चतुरुत्तरशतादपनीते शेषायाः सप्ताशीतेरुदयः । प्रमत्तसंयतगुणस्थाने पश्चानामुदयव्यवच्छेदः । देशविस्तव्यवच्छिन्नमष्टकं सप्ताशीतेरपनीय शेषायामेकोनाशीतावाहारकशरीरतद्वङ्गोपाङ्गनाम्नोः प्रक्षिप्तयोरेकाशीतेरुदयः। अप्रमत्तसंयतगुणस्थाने चतसृणां प्रकृतीनामुदयव्यवच्छेदः । प्रमत्तसंयतव्यवच्छिन्नं पञ्चकमेकाशीतेरपनीयते शेषायाः षट्सप्ततेरुदयः। अपूर्वकरणगुणस्थाने पण्णां प्रकृतीनामुदयव्यवच्छेदः । अप्रमत्तव्यवच्छिन्ने ॥ १ "शेषायां नवनवतौ सम्यग्मिथ्यात्वं प्रक्षिप्यते ततश्च शतस्योदयः" इत्यपि पाठः । २ "यामेकान्नाशी" इति वा पाठः । एवम13 ग्रेऽपि 'एकोनचत्वारिंशत् एकोनषष्टिः' इत्यादावपि 'एकानचत्वारिंशत् एकान्नषष्टिः' इत्यादि "नविंशत्यादिनकोऽचान्त" सिद्ध० ३-१-६९ ति इति सूत्रेण तत्पुरुषसमासेऽत्प्रत्ययान्ते च ज्ञेयम् ॥
ARCOS
For Private And Personal Use Only