________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थभागे तु तृतीयभागव्यवच्छिन्नामेकां मुक्त्वा शेषाया एकान्नविंशतेर्बन्धः । पञ्चमभागे तु चतुर्थभागव्यवच्छिन्नामेकां मुक्त्वा शेषाणामष्टादशानां वन्धो बोद्धव्यः । 'सोलस सुहुमसरागे' इति, सूक्ष्मसम्परायगुणस्थाने पोडशेति विभक्तिव्यत्वयात्षोडशानां कर्मप्रकृतीनां बन्धव्यवच्छेदः । इह चानिवृतिषादरसम्परायपश्चमभामव्यवच्छिन्नायामेकस्यां कर्ममकृताविष्टादशभ्योऽपनीतायां शेषाणां सप्तदशमां बन्धः । 'साथ सजोगी जिणवरिंदे' इति, सयोगिकेवलिगुणस्थाने, सातस्यैका बन्धव्यवच्छेदः । जिनवरेन्द्रः इति पूर्ववत् सूक्ष्मसम्परायव्यवच्छिन्नासु पोडशसु प्रकृतिषु सप्तदशन्कोऽपनीता पशान्तमोहीणमोहसयोगिकेवलिगुजस्थानेषु शेषाया एकस्याः सातवेदनीयकर्मप्रकृतेर्बन्धः । अयोगिकेवली त्ववन्धकः, पुद्गलग्रहणहेतोर्योगस्याभावात् । उक्तं हि 'जोगा पाएसं' इति ॥ ३ ॥
गुणस्थानेषु प्रकृतिबन्धव्यवच्छेदोद्देशः । इदानीं तेष्वेव क कियतीनां कर्मप्रकृतीनामुद्रयवच्छेदः ? इत्याह-पण नव इग सत्तरसं, अड पंच यचउर छक्क छ चेव । इग दुग सोलस तीसं, बारस उदयं अजोगंता ॥ ४॥
पच १ न २ एका ३ सप्तदश ४ अष्टौं ५ प ६ च चतस्रः ७ पङ्कं ८ पटू ९ चैत्र एका १० द्विकं ११ पोटश १२ त्रिंशत् १३ द्वादश १४ कर्मप्रकृतयो यथासङ्ख्यं मिथ्यादृष्टिगुणस्थानप्रभृत्ययोग्यन्ता योग्ययः । कर्मप्रकृतीनां च द्वाविंशं शतमुदयोदरिणयोरधिक्रियते तच्च दर्शयिष्यामः । तत्र - मिथ्यादृष्टिगुणस्थाने पञ्चानामुदयव्यवच्छेदः पूर्वोक्त एव व्यव |च्छेदार्थः सर्वत्रानुसरणीयः । इह सम्यक्त्वसम्यग्मिथ्यात्वाहार कशरीरतदङ्गोपाङ्गनामतीर्थकरनानां पञ्चानां प्रकृतीनामुदयो मिथ्यादृष्टेर्नास्ति । शेषस्य सप्तदशोत्तरस्य शतस्योदयः । सासादनसम्यग्दृष्टिगुणस्थाने नवानामुदयव्यवच्छेदः ।
For Private And Personal Use Only