________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मस्तवः
॥७४ ॥
HASE
ROCEREMONSTRKAASHRS
डमनोयोगी निरुणद्धि । ततस्तमेव सूक्ष्मकाययोग स्वात्मनैव निरुणद्धि । तन्निरोधानन्तरं समुच्छिन्नक्रियमप्रतिपातिशुक्ल-टीकोपेतः। ध्यानं ध्यावन् इस्वपञ्चाक्षरोच्चारणमात्रं कालं शैलेशीकरणं प्रविष्टो भवति । शीलस्य योगलेश्याकलङ्कविप्रमुक्तयथाख्यातः। चारित्रलक्षणस्य य ईशः स शीलेशः, तस्येयं शैलेशी। त्रिभागोनस्वदेहावगाहनायामुदरादिरन्ध्रपूरणवशात्सङ्कोचितस्वप्रदेशस्य शीलेशस्यात्मनोऽत्यन्तं स्थिरावस्थितिरित्यर्थः। तस्यां करणं पूर्वरचितशैलेशीसमयसमानगुणश्रेणीकस्य वेदनीयनामगोत्राख्यस्याघातिकर्मत्रितयस्थासंख्येयगुणया श्रेण्या, आयुःशेषस्य तु यथास्वरूपस्थितया श्रेण्या निर्जरणं शैलेशीकरणम् , तच्चासौ प्रविष्टः सन् अयोगी ब्रासौ केवली चेत्यगोगिकेवली भवस्थः । स च शैलेशीकरणचरमसमयानन्तरसमये छिन्नचतुर्विधकर्मबन्धनत्वाच्छिन्नफलबन्धनैरण्डबीजवद्गतिप्रवृत्तेः, व्यपगतकर्मलेपसङ्गत्वात् । विगतमृल्लेपसङ्गगम्भीरजलतलवर्युपरितलगाम्यलाबुवत् सर्वथा विप्रहाय शरीरत्रयमूर्ध्वमृजुश्रेण्या समयेन गच्छत्यालोकान्तरम् , न परतोऽपि, मत्स्यवजलकल्पगत्युपष्टम्भकधर्मास्तिकायाभावात् । तत्रासा सिद्धोऽयोगिकेवली शाश्वतं कालमास्ते १४ ॥ इति व्याख्यातानि लेशतो गुणस्थानकानि । गाथाऽधुना पिनियते-'मिच्छे' इति, भीमसेनो भीम इत्यादिवत्पदवाच्यस्यार्थस्य पदैकदेशेनाप्यभिधीनदर्शनान्मिादृष्टिगुणस्थानमित्यर्थः । एवमुत्तरेष्वपि पदकाच्यस्यार्थस्य पदैकदेशप्रयोगो द्रष्टव्यः । तत्र | षोडशेति बन्धमाश्रित्य कर्मप्रकृतय इति प्रक्रमाद्गम्यते । व्यवच्छिन्ना इति वक्ष्यमाणेन संबन्धः । तत्र भावस्तदुत्तरेषु द चाभावो व्यवच्छेदार्थः । केवलज्ञानं जम्बूस्वामिनि व्यवच्छिन्नमिति यथा, विंशत्युत्तरं च कर्मप्रकृतिशतं बन्धेऽधिक्रियते
१ "धानान्मिथ्या" इति वा पाठः । २ 'न्तात् , न' इत्यपि ॥
RALA
For Private And Personal Use Only